SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके दशमाध्ययनम् । ६१ सलगावे नहि, ( न जलावए के० ) न ज्वालयति एटले बीजा पासे सलगावे नहि, तथा सलगावनारने अनुमोदे नहि. ( स के० ) सः एटले ते ( निरकू के० ) निक्कुः एटले साधु कदेवाय बे. ॥ २ ॥ ( दीपिका . ) तथा साधुः पृथ्वीं सचेतनादिरूपां न खनति स्वयम् । नच खानयति परैः । एकग्रहणे तातीयानामपि ग्रहणात् खनन्तमन्यं नानुजानातीत्येवं सर्वत्र वेदितव्यम् । तथा यः साधुः सचित्तं पानीयं स्वयं न पिबति । नच पाययति परान् । तथा अग्निः षड्जीव निकायघातकः । किंवत् । यथा सुनिशितमुज्ज्वालितं शस्त्रं जीवघातकं जवेत् । ततस्तमग्निं यः स्वयं न ज्वालयति । परैर्न ज्वालयति । स भूतो निक्षुर्भवेत् । ननु षड्जीवनिकायादिष्वध्ययनेषु पूर्वोक्तेषु सर्वत्रायमेवार्थः कथितः । किमर्थं पुनरपि सनिक्कुनामाध्ययनेऽपि स एवार्थः प्ररूप्यते । पुनरुक्तिदोषप्रसंगो जायते । त्रोत्तरमाह । षड्जीव निकायपालनापर एव निकुरुच्यते नान्य इति ज्ञापनार्थं ततो न दोषः ॥ २ ॥ I ( टीका. ) तथा पुढवि त्ति सूत्रम् । अस्य व्याख्या । पृथिवीं सचेतनादिरूपां न खनति स्वयम् । न खानयति परैः । एकग्रहणेतत्तजातीयग्रहणमिति खनन्तमन्यं न समनुजानात्येवं सर्वत्र वेदितव्यम् । शीतोदकं सचित्तं पानीयं न पिबति स्वयम् । न पाययति परानिति । श्रग्निः षड्जीवघातकः । किंवदित्याह । शस्त्रं खड्गादि यथा सुनिशितमुज्ज्वालितं तद्वत् । तं न ज्वालयति स्वयम् । न ज्वालयति परैर्य श्वंभूतः स निकुः । श्राह । षड्जीवनिकायादिषु सर्वाध्ययनेष्वयमर्थोऽनिहितः । किमर्थं पुनरुक्त इत्युच्यते । तक्तार्थानुष्ठान पर एव निकुरिति ज्ञापनार्थम् । ततश्च न दोष इति सूत्रार्थः ॥२॥ अनिलेन वीएन वीयावए, दरियाणि न चिंदे न चिंदावए ॥ बासिया विवजयंतो, सच्चित्तं नादारए जे सनिक ॥ ३ ॥ ( अवचूरि : ) अनिलेना निलहेतुना चेलकर्णादिना न वीजयत्यात्मादि स्वयम् । न वीजयति परैः । हरितानि न छिनत्ति स्वयं न बेदयति परैः । बीजानि व्रीह्यादीनि संघट्टना दिना वर्जयेत् । सचित्तं नाहारयति यः कदाचिदपुष्टालम्बने स निदुः ॥ ३ ॥ ( अर्थ. ) तेम अनिल इत्यादि सूत्र. (जे के० ) यः एटले जे ( अनिलेश के० ) निलेन एटले पवन जेथी उत्पन्न याय एवा व्यजन ( पंखो ), वस्त्रनो बेडो इत्यादिवडे पोते पोताने ( न वीए के० ) न वीजयति एटले वीजावे नहि, ( न वीवएके०) न वीजयति एटले बीजा पासे पोताने वीजावे नहि, तथा वीजावनारने नु Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy