________________
हरिवंशपुराणं।
४६०
पंचत्रिंशः सर्गः। तदाभ्यर्षिचत्स्वयमंचितास्थां न मुह्यति प्राप्तकृतौ कृती हि ॥ ६२॥ ततो हरिप्रेक्षणलब्धसौख्या हली समानीय समाप्तकायां ।
प्रवेश्य साध्वीं मथुरां पुनस्तं न्यवेदयवृत्तमपि स्वपित्रे ॥ ६३ ॥ कलागुणान् प्रत्यहमेत्य दक्षमशिक्षयत्केशवमाशु शीरी ।
स्थिरोपदेशे प्रणते न शिष्ये गुरूपदेशाः क्षपयंति कालं ॥ ६४ ॥ स बालभावात्सुकुमारभावस्तथैवमुद्भिन्नकुचाः कुमारः।
सुयौवनोन्मादभराः सुराशैररीरमत्केलिषु गोपकन्याः ॥६५॥ करांगुलिस्पर्शसुखं स रासेष्वजीजनद्रोपवधजनस्य ।
सुनिर्विकारोऽपि महानुभावो सुमुद्रिकानद्धमणियथार्थ्यः ॥ ६६ ।। यथा हरौ भूरिजनानुरागो जगाम वृद्धिं हृदि वृद्धिसूची ।
तथास्य तेने विरहानुरागो विहारकाले विरहातुरस्य ॥ ६७ ॥ द्विषं तमन्वेष्टुमितः प्रविष्टः स शंकया कंसरिपुः कदाचित् ।
व्रजं निजैराव्रजदच्युतोऽस्मात्पुरोभ्युपायाद्गमितो जनन्याः॥ ६८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org