________________
७९८
हरिवंशपुराणं ।
षट्षष्टितमः सर्गः। षट्षष्टितमः सर्गः। प्रतापवश्याखिलराजके नृपे प्रशासति क्ष्मातलमुग्रशासने । जरत्कुमारे जनितादराः प्रजाः प्रकाममायुःप्रमदं धरातले ॥१॥ कलिंगराजस्य नृपस्य देहजा जरत्कुमारस्य वधूर्वधूत्तमाः। सुखेन लेभे जगतःसुखावहं वसुध्वजं राजकुलध्वजं सुतं ॥२॥ स तत्र यूनि व्यवसायिनि क्षितिं जरत्कुमारो हरिवंशशेखरे । निधाय यातस्तपसे वनं सतां कुलबतं तीव्रतपोनिषेवणं ॥३॥ सुतोभवच्चंद्र इव प्रजाप्रियो वसुध्वजाचासुवसुर्वसूपमः । सभीमवर्मास्य कलिंगपालकस्तदन्वयेऽतीयुरनेकशॉ नृपाः ॥ ४॥ कपिष्टनामान्वयभूषणस्त्वभूदजातशत्रुस्तनयस्ततोऽभवत् । स शत्रुसेनोस्य जितारिरंगजस्तदंगजो यंत्रितशत्रुरीश्वरः ॥५॥ भवान्न किं श्रेणिक वेत्ति भूपतिं नृपेंद्रसिद्धार्थकनीयसीपतिं । इमं प्रसिद्धं जितशत्रुमाख्यया प्रतापवंतं जितशत्रुमंडलं ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org