________________
७९६
हरिवंशपुराणं ।
पंचपष्टितमः सर्गः। महाप्रभावसंपन्ने देवे तत्र तथास्थिते । शब्दगंधरसस्पर्शाः शुभतामशुभा ययुः ॥४४॥ एह्येहि कृष्ण योहं ते आता ज्येष्ठो हलायुधः। ब्रह्मलोकाधिपो भूत्वा त्वत्समीपमिहागतः ॥४५॥ इत्युक्त्वा तं समुद्धत्य स्वर्लोकं नेतुमुद्यते । देवे तस्य व्यलीयंते गात्राणि नवनीतवत् ॥४६॥ ततः कृष्णो जगौ देव भ्रातः किं व्यर्थचेष्टितैः। किन्न ज्ञातं यथा सर्वे जीवाः स्वकृतभोगिनः॥ यद्येन यादृशं कर्म संसारे समुपार्जितं । तत्तेन तादृशं भ्रातर्नियमादनुभूयते ॥४८॥ शक्नुयुः सुखमाहतु हर्तु वा दुःखमंगिनां । देवा यदि ततो नंति मृत्युदुःखं निजं न किं ॥४९॥ भ्रातर्याहि ततः स्वर्ग भुंश्व पुण्यफलं निजं । आयुषोतेऽहमप्येमि मोक्षहेतुं मनुष्यतां ॥५०॥ आवां तत्र तपः कृत्वा जिनशासनसेवया । मोक्षसौख्यमवाप्स्यावः कृत्वा कर्मपरिक्षयं ॥५१॥ आवां पुत्रादिसंयुक्तौ महाविभवसंगतौ । भारते दर्शयान्येषां विस्मयव्याप्तचेतसां ॥५२॥ शंखचक्रगदापाणिर्मदीयप्रतिमा गहैः । भारतं व्यापय क्षेत्रं मत्कीर्तिपरिवृद्धये ॥५३॥ इत्यादि वचनं तस्य प्रतिपद्य सुरेश्वरः । सम्यक्त्वे शुद्धिमाख्याप्य भारतं क्षेत्रमागतः ॥५४॥ भ्रातृस्नेहवशो देवो यथोद्दिष्टं स विष्णुना । चक्रे दिव्यविमानस्थं चक्रिलांगलदर्शनं ॥५५॥ वासुदेवगृहैश्चक्रे नागरादिनिवेशितैः । विष्णुमोहमयं लोकं स्नेहार्तिक वा न चेष्ट्रयते ॥५६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org