________________
४०१
हरिवंशपुराणं ।
एकत्रिंशः सर्गः। एकत्रिंशत्तमः सर्गः। अथ हर्म्यतले सुप्तः प्रभावत्या सहान्यदा । सूर्यकेण हृतः सौरिबुबुधे स चिरेण खे ॥१॥ जघान मुष्टिघातेन विद्विषं चामुचत् स खात् । गोदावयाः पपातायं न्हदे देहसुखावहे ।। २ ॥ तत्र कुंडपुरे लेभे कन्यां पारथस्य सः। माल्यकौशलयोगेन कलाकौशलशालिनीं ॥ ३ ॥ ततोऽपि नीलकंठेन नीत्वा मुक्तोऽपतद् यदुः । चंपासरसि संप्राप्तस्तस्यां सोऽमात्यदेहजां ॥४॥ जलक्रीडारतस्तत्र स हृतः सूर्पकारिणा । विमुक्तश्च पपातासौ भागीरथ्यां मनोरथी ॥५॥ पर्यटन्नटवीं तत्र म्लेच्छराजेन वीक्षितः । परिणीय सुतां तस्य जराख्यां तत्र चावसत् ॥ ६ ॥ जरत्कुमारमुत्पाद्य तस्यामुन्नतविक्रमः । अवंतिसुंदरीं प्राप शूरसेनां च शंसितां ॥ ७ ॥ पुरुषान्वेषिणीमन्यां कन्यां जीवद्यशःश्रुतिं । उपयम्यापराश्वासावरिष्टपुरमाययौ ।। ८॥ राजा तत्र तदा धीरो रुधिरो युधिरोधनः । तस्य मित्रा महादवी देवीव द्युतिसंपदा ॥९॥ ज्येष्ठो हिरण्यनाभाख्यस्तनयो नयवित्तयोः । रणशौंडो महासत्वः शस्त्रशास्त्रेकृतग्रहः ॥ १० ॥ कलापारमिता रूपयौवनोदयधारिणी । तनया रोहिणीनाम्ना रोहिणीव यशस्विनी ॥ ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org