SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । अष्टसप्ततितमं पर्व। मुनिं च तं द्रष्टुमितो नगर्या-स्तस्याः पतिः सद्युतिरिन्द्रनामा ॥६५॥ उपेक्षयैवाऽऽदरकार्यमुक्तः । स्थितः समालोक्य मुनिर्मनीषी ॥ मिथ्या यतो दर्शनमस्य राज्ञो । विज्ञातमेतेन तदानुपायम् ॥ ६६ ॥ श्रेष्ठीति नंदीति जिनेन्द्रभक्त-स्ततः पुरो द्रष्टुमितो भदन्तम् ॥ तस्यादरो राजसमस्य भूत्या । कतोऽनगारेण यथाभिधानम् ॥ ६७ ॥ तमादृतं वीक्ष्य मुनीश्वरेण । निदानमाबाध्यत पश्चिमेन ॥ ____ भवाम्यहं नंदिसुतो यथेति । धर्म तदर्थं च कुधीरकार्षीत् ॥ ६८ ॥ स बोध्यमानोऽप्यनिवृत्तचित्तो । मृतो निदानग्रहदूषितात्मा ।। सुतोऽभवनंदिन इंदुमुख्यां । सुयोपिति श्लाघ्यगुणान्वितायाम् ॥ ६९ ॥ गर्भस्य एवाऽत्र महीपतीनां । स्थानेषु लिंगानि बहून्यभूवन् ॥ एतस्य राज्योद्भवसूचनानि । प्राकारपातप्रभृतीनि सद्यः ॥ ७० ॥ ज्ञात्वा नृपास्तं विविधैर्निमित्तै-महानरं भाविनमुग्रसूतिम् ॥ जन्मप्रभृत्यादरसंप्रयुक्तै-द्रन्यैरसेवंत सुदूतनीतैः ॥ ७१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy