________________
पद्मपुराणम् ।
अष्टलप्ततितम पर्व । समीपीबभूवुः । प्रसूनायुधोद्यानमिन्द्रा इवोदारसंमोदगंधर्वयक्षाप्सरःसंघसंसेविता वाहनेभ्योऽवतीधिनिर्मुक्तकेत्वादिपत्रादियोगाः समागत्य योगीन्द्रमभ्यर्च्य पादारविंदद्वयं संविधाय प्रणाम प्रभक्त्या परिष्टुत्य सत्स्तोत्रमंत्रप्रगाढेवेचोमियथार्ह क्षितौ संनिविश्य स्थिता धर्मशुश्रूषया युक्तचित्ताः सुखं शुश्रुवुर्धर्ममेवं मुनीन्द्रास्यतो निर्गतम् । गतय इव चतस्रो भवे यासु नानामहादुःखचक्राधिरूढाः सदा देहिनः पर्यटंत्यष्टकर्मावनद्धाः शुभं चाशुभं च स्वयं कर्म कुर्वन्ति रौद्रातयुक्ताः महामोहनीयेन तस्मिन्नरा बुद्धियुक्ताः कृता ये सदा प्राणिघातैरसत्यैः परद्रव्यहारैः परस्त्रीपरिष्वंगरागैः प्रमाणप्रहीणार्थसंगैर्महालोभसंवर्द्धितैयोति योग कुकर्माभिनुन्नास्तके मृत्युमाप्य प्रपद्यत्यधस्तान्महीरत्नप्रभाशर्करावालुकापंकधूमप्रभाध्वांतभातिप्रकृष्टांधकाराभिधास्ताश्च नित्यं महाघ्वांतयुक्ताः सुदुर्गधवीभत्सदुःप्रेक्ष्यदुःस्पर्शरूपा महादारुणास्तप्तलोहोपमक्ष्मातलाः कंदनाक्रोशनत्रासनैराकुला यत्र ते नारकाः पापबंधेन दुष्कर्मणा सर्वकालं महातीव्रदुःखामनेकार्णवोपम्यबंधस्थितिं प्राप्नुवैतीदमेवं विदित्वा बुधाः पापबंधादतिद्विष्टचित्ता रमध्वं सुधर्मे व्रतनियमविनाकृताश्च स्वभावार्जवाद्यैर्गुणैरचिताः केचिदायांति मानुष्यमन्ये तपोभिर्विचित्रैः सुराणां निवासं ततब्युताः प्राप्य भूयो मनुष्यत्वमुत्सृष्टधर्माभिलाषा जना ये भवत्येतके श्रेषसा विप्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org