________________
पद्मपुराणम् ।
असप्ततितम पर्व। शुभै रत्नधात्विद्रकुंभैः सुभक्त्याभिषिच्य प्रणुत्य, प्रगीर्भिः पुनर्मातुरंके सुखं स्थापयित्वा प्रभु बालकं बालकमेप्रमुक्तं प्रवंद्य प्रहृष्टा विधायोचितं वस्तुकृत्यं परावत्तेमानाः, समालोक्य तस्याभिजग्मुः समीपं, प्रभावानुकृष्टाः प्रवरविमानानि केचित्समानानि रत्नोरुदामानि दीप्तांशुबिंबप्रकाशानि देवाः समारूढवंतोऽत्र केचिच्च शंखप्रतीकाशसद्राजहंसाश्रिताः केचिदुद्दामदान प्रसेकातिसद्धसंबंधसंभ्रान्तगुंजत्षडंघ्रि-प्रहृष्टोरुचक्रातिनीलप्रभाजालकोच्छासिगंडस्थलानेकपाधीशपृष्ठाधिरूढास्तथा बालचंद्राभदंष्ट्राकरालाननव्याघ्रसिंहादिवाहाधिरूढा मुनेरंतिकं प्रस्थिता. श्वारुचित्ताः पटुपटहमृदंगगंभीरभेरीनिनादैः कणद्वंशवीणासु मुंदैज्झणज्झर्झरीका, स्वनद्भरिशंखैमहामेघसंघातनिर्घोषमंद्रध्वनि दुंदुभिवातरम्यैर्मनोहारिदेवांगनागीतकांतैर्नभोमंडलं व्याप्तमासी त्तदा प्रतिभयतमसि प्रभाचक्रमालोक्य तत्राद्धरात्रेविमानस्थरत्नादिजातं निशम्य ध्वनि दुंदुभीनां च तारां समुद्विग्नचित्तोऽभवद्राघवो लक्ष्मणश्च क्षणं तद्विदित्वा यथावत्पुनस्तुष्टिमेतौ । उदधिरिव कपिध्वजानां बलं क्षुभ्यते राक्षसानां तथैवोर्जितं भक्तितस्ते च विद्याधराः पद्मनारायणाद्याश्च सन्मानवाः सद्विपेन्द्राधिरूढास्तथा भानुकर्णेन्द्रजिन्मेघवाहादयो गंतुमभ्युद्यताः रथ वरतुरगान् समारुह्य शुभ्रातपत्रध्वजप्रौढहंसाबलीशोभनप्रोल्लसचामराटोपयुक्ता नमछादयंत.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org