________________
पद्मपुराणम् ।
अष्टसप्ततितमं पर्व ।
तिष्ठति मुनयो यस्मिन्देशे परमलब्धयः । तथा केवलिनस्तत्र योजनानां शतद्वयम् ॥ ५५ ॥ पृथिवी स्वर्गसंकाशा जायते निरुपद्रवा । वैरानुबंधमुक्ताश्च भवति निकटे नृपाः || ५६ ॥ अमूर्त्तत्वं यथा व्योम्नश्चलत्वमनिलस्य च । महामुनेर्निसर्गेण लोकस्याह्लादनं तथा ॥ ५७ ॥ अनेकाद्भुतसंपन्नैर्मुनिभिः स समावृतः । यथाऽऽगतस्तथा वक्तुं केन श्रेणिक शक्यते ॥ ५८ ॥ सुवर्णकुंभसंकाशसंयत स संगतः । आगत्याssवासितो धीमानुद्याने कुसुमायुधे ॥ ५९ ॥ षट्पंचाशत्सहस्रैस्तु खेचरैर्मुनिभिः परैः । रेजे तत्र समासीनो ग्रहैर्विधुरिवाssवृतः ॥ ६० ॥ शुक्लध्यानप्रवृत्तस्य सद्विविक्ते शिलातले । तस्यामेव समुत्पन्नं शर्वय तस्य केवलम् ।। ६१ ।। तस्यातिशय संबंधं कीर्त्यमानं मनोहरम् । शृणु श्रेणिक ! पापस्य नोदनं परमाद्भुतम् ।। ६२ ।। अर्थ मुनिवृषभं तथाऽनंतसत्त्वं मृगेन्द्रासने सन्निविष्टं भ्रुवोऽधोनिवासाः मरुन्नागविद्युत्सुर्पर्णादयोविंशतेरर्धभेदा । तथा षोडशार्द्धप्रकाराः स्मृता व्यंतराः किंनराद्याः सहस्रांशुचंद्रग्रहाद्याथ पंचप्रकारान्विता ज्योतिराख्या, द्विरष्टप्रकाराश्च कल्पालयाः ख्यात सौधर्मना मादयो धातकीखंडवास्ये समुद्भूतकालोत्सवे स्फतिपूजां सुमेरोः शिरस्युत्तमे देवदेवं जिनेंद्र १ भुजंगप्रयातछन्दोमयोऽयं भागः ।
Jain Education International
८४
For Private & Personal Use Only
www.jainelibrary.org