SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ अष्टसप्ततितमं पर्व । ८१ विलोक्यानीयमानांस्तान्दिङ्मतङ्गजसन्निभान् । जजल्पुः कपयः स्वैरं संहतिस्थाः परस्परम् १६ प्रज्वलंतीं चितां वीक्ष्य रावणीयां रुषं यदि । प्रयातीन्द्रजितो यातु कुंभकर्णनृपोऽपि वा ॥ १७॥ अनयोरेककस्यापि ततो विकृतिमीयुषः । कः समर्थः पुरः ख्यातुं कपिध्वजवले नृपः ॥ १८ ॥ यो यत्रावस्थितस्तस्मात्स्थानादुद्याति नैव सः । अनयोर्हि बलं दृष्टमेतैः संग्राममूर्द्धनि ॥ १९ ॥ भामंडलेन चात्मीया गदिता भटपुंगवाः । यथा नाद्यापि विभो विधातव्यो विभीषणे ॥२०॥ कदाचित्स्वजनाने तात्प्राप्य निर्धूतबंधनान् । भ्रातृदुःखानुतप्तस्य जायतेऽस्य विकारिता || २१ || इत्युद्भूतसमाशंकैर्वैदेहादिभिरावृताः । नीयंते कुंभकर्णाद्या बलनारायणांतिकम् ॥ २२ ॥ रागद्वेषविनिर्मुक्ता मनसा सुनितां गताः । धरणीं सौम्यया दृष्ट्या वीक्षमाणाः शुभाननाः २३ संसारे सारगंधोऽपि न कश्चिदिह विद्यते । धर्म एको महाबंधुः सारः सर्वशरीरिणाम् ॥ २४ ॥ विमोक्षं यदि नामास्मात्प्राप्स्यामो बंधनाद्वयम् । पारणां पाणिमात्रेण करिष्यामो निरंबरा : २५ प्रतिज्ञामेवमारूढा रामस्यांतिकमाश्रिताः । विभीषणं समाजग्मुः कुंभकर्णादयो नृपाः ॥ २६ ॥ वृत्ते यथायथं तत्र दुःखसंभाषणेऽगदन् । प्रशांताः कुंभकर्णाद्या बलनारायणाविति ॥ २७ ॥ अहो वः परमं धैर्ये गांभीर्य चेष्टितं बलम् । सुरैरप्यजयो नीतो मृत्युं मद्राक्षसाधिपः ॥ २८ ॥ ३-६ पद्मपुराणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy