________________
पपुराणम् ।
अतितमं पर्व ।
३४ ॥
परं कृतापकारोऽपि मानी निर्व्यूढभाषितः । अत्युन्नतगुणः शत्रुः श्लाघनीयो विपश्चिताम् ॥ २९ ॥ परिसांख्य ततश्चक्री वचनैर्हृदयंगमैः । जगाद पूर्ववद्ययं भोगैस्तिष्ठत संगताः ॥ ३० ॥ गदितं तैरलं भोगैरस्माकं विषदारुणैः । महामोहावहैर्भीमैः सुमहादुःखदायिभिः ॥ ३१ ॥ उपायाः संति तेनैव यैर्न ते कृतसांत्वनाः । तथापि भोगसंबंध प्रतीयुर्न मनस्विनः ॥ ३२ ॥ नारायणे तथा लग्ने स्वयं हलधरेऽपि च । दृष्टिभोंगे पराचीना तेषामासीद्रवाविव ॥ ३३ ॥ भिब्रांजनदलच्छाये तस्मिन सुसरसो जले । अबंधनैरिमैः साकं स्नाताः सर्वे सुगंधिनि ॥ राजीव सरसस्तस्मादुत्तीर्यानुक्रमेण च । यथा स्वं निलयं जग्मुः कपयो राक्षसास्तथा ॥ ३५ ॥ सरसोऽस्य तटे रम्ये खेचरा बद्धमंडलाः । केचिच्छूरकथां चक्रुर्विस्मय व्याप्तमानसाः ॥ ३६ ॥ ददुः केचिटुपालंभं दैवस्य क्रूरकर्मणः । मुमुचुः केचिदस्राणि संततानि स्वनोज्झितम् ॥ ३७ ॥ आपूर्यमाणचेतस्ा गुणैः स्मृतिपथं गतैः । रावणीयैर्जनाः केचिद्रुरुदुर्मुक्तकण्ठकम् ।। ३८ ।। चित्रतां कर्मणां केचिदवोचन्नतिसंकटाम् । अन्ये संसारकांतारं निनिंदुरतिदुस्तरम् ॥ ३९ ॥ चिषु विद्वेषं परमं समुपागताः । राजलक्ष्मीं चलां केचिदमन्यंत निरर्थकाम् ॥ ४० ॥ गतिरेषैव वीराणामिति केचिद्वभाषिरे । अकार्यगईणं केचिच्चक्रुरुत्तमबुद्धयः ॥ ४१ ॥
1
Jain Education International
८२
For Private & Personal Use Only
www.jainelibrary.org