________________
पद्मपुराणम् ।
अवसप्ततितम पर्व। तत्राभिनंदिते वाक्ये विभीषणसमन्वितौ । बलनारायणौ साकं शेषस्तो ककुभं श्रितौ ॥३॥ या मंदोदरी शोकविहला कुररीसमम् । योषित्सहस्रमध्यस्था विरौति करुणावहम् ॥४॥ अवतीर्य महानागात्सत्त्वरं बलकेशवौ । मंदोदरीमुपायातौ साकं खेचरपुंगवैः ॥५॥ दृष्ट्वा तो सुतरां नार्यो रुरुदुमुक्तकण्ठकम् । विरुणरत्नवलया वसुधापांशुधुसराः ॥ ६॥ मंदादयों समं सर्वमंगनानिवहं बलः । वाग्भिश्चित्राभिरानिन्ये समाश्वासं विचक्षणः ॥७॥ कर्पूरागुरुगोशीर्षचंदनादिभिरुत्तमैः । संस्कार्य रावणं याताः सर्वे पद्मसरी महत् ॥ ८॥ उपविश्य सरस्तीरे पद्मनोंक्तं सुचेतसा । कुंभादयो विमुच्यतां सामंतैः सहिता इति ॥ ९॥ खेचरेशैस्ततः कैश्विदुक्तं ते क्रूरमानसाः । हन्यतां वैरिणो यद्वन्मियतां बंधने स्वयम् ॥ १० ॥ बलदेवो जगौ भूयः क्षात्रं नेदं विचेष्टितम् । प्रसिद्धा वा न विज्ञाता भवद्भिः किमियं स्थितिः॥ सुप्तवद्धनतत्रस्तदंतदष्टादयो भटाः । न हंतव्या इति क्षात्रो धर्मो जगति राजते ॥ १२ ॥ एवमस्त्विति सनद्धास्तानानेतुं महाभटाः । नानाऽऽयुधधरा जग्मुः स्वाम्यादेशपरायणाः ॥१३॥ इन्द्रजित्कुंभकर्णश्च मारीचो धनवाहनः । तथा मंयमहादैत्यप्रमुखाः खेचरोत्तमाः ॥१४॥ परिता निगडैः स्थूलैरमी खणखणायितैः । प्रमादरहितैः शरैरानीयंते समाहितैः ॥ १५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org