________________
पद्मपुराणम् ।
अष्टसप्ततितमं पर्व। र्यच्छूरं कृतनिश्चयं विधिवशानारायणेनाहतम् ॥ संग्रामेऽभिमुखं प्रधानपुरुषं शोचस्यहो रावणं ।
स्वार्थे संप्रति यच्छ चित्तममुना शोकेन किं कारणम् ॥ ७१ ॥ श्रुत्वेमा प्रतिबोधदानकुशला चित्रस्वभावान्वितां ।
.. सत्प्रीतिकरसंयतस्य चरितप्रोत्कीर्तनीयां कथाम् ॥ सर्वैः खेचरपुंगवैरभिहितैः साधूदितं साध्विति ।
भ्रष्टः शुक्तिमिराद्विभीषणरविर्लोकोत्तराचारवित् ॥ ७२ ॥ इत्याचे रविषेणाचार्यप्रोक्ते पद्मपुराणे प्रीतिकरोपाख्यानं नाम सप्तसप्ततितमं पर्व ।
अथाष्टसप्ततितमं पर्व । ततो हलधरोऽवोचत्कर्त्तव्यं किमतः परम् । मरणांतानि वैराणि जायते हि विपश्चिताम् ॥१॥ परलोके गतस्यातो लंकेशस्योत्तमं वपुः । महानरस्य संस्कार प्रापयामः सुखैधितम् ॥ २॥....
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org