________________
पद्मपुराणम् ।
सप्तसप्ततितमं पर्व ।
परमोत्कंठया युक्तः केतुतोरणमंडितम् । पुरं विवेश सोऽकस्मादश्चैर्मानसगचरैः ।। ५९ ।। स्वं गृहं संस्कृतं दृष्ट्वा भूषितां च स्वसुंदरीम् । अपृच्छद्विदितोऽहं ते कथमेतीत्यवेदितम् ।। ६० ।। सा जगौ मुनिमुख्येन नाथ कीर्त्तिधरेण मे । अवधिज्ञानिना शिष्टं पृष्टनैतेन पारणाम् ॥ ६१ ॥ अवोचदीक्षया युक्तो गत्वाऽसौ मुनिपुंगवम् । यदि त्वं वेत्सि तच्चितां मदीयां मम बोधय ॥ ६२ ॥ मुनिना गदितं चित्ते त्वयेदं विनिवेशितम् । यथा किल कथं मृत्युः कदा वा मे भविष्यति ६३ स त्वमस्माद्दिनादह्नि सप्तमे वज्रताडितः । मृत्वा भविष्यसि स्वस्मिन् कीटो विद्भवने महान् ६४ ततः प्रीतिंकराभिख्यमागत्य तनयं जगौ । त्वयाऽहं विद्रगृहे जातो हंतव्यं स्थूलकीटकः ||६५ || तथाभूतं स दृष्ट्वा तं तनयं हंतुमुद्यतम् । विद्मध्यमविशद्दूरं मृत्युभीतिपरिद्भुतः ।। ६६ ।। मुनिं प्रीतिं गत्वा पप्रच्छ भगवन् कुतः । संदिश्य मार्यमाणोऽसौ कीटो दूरं पलायते ॥ ६७॥ उवाच वचनं साधुर्विषादमिह मा कृथाः । योनिं यामश्नुते जंतुस्तत्रैव रतिमेति सः ॥ ६८ ॥ आत्मनस्तत्कुरुश्रेयो मुच्यसे येन किल्विषात् । ननु स्वकृत संप्राप्तिप्रवणाः सर्वदेहिनः ॥ ६९ ॥ एवं भवस्थितिं ज्ञात्वा परम सुखकारिणीम् । प्रीतिकरो महायोगी बभूव विगतस्पृहः ७० ॥ एवं ते विविधा विभीषण न किं ज्ञाता जगत्संस्थिति —
Jain Education International
७८
For Private & Personal Use Only
www.jainelibrary.org