________________
पद्मपुराणम् ।
सप्तसप्ततितम पर्व। ऊचतुः करुणोद्युक्तौ परिसाँच्चनकोविदौ । विभीषणमिदं वाक्यं लोकवृत्तांतपंडितौ ।। ४६ ॥ राजन्नलं रुदित्वैवं विषादमधुना त्यज । जानास्येव ननु व्यक्तं कर्मणामिति चेष्टितम् ॥४७॥ पूर्वकमोनुभावेन प्रमादं भजतां नृणाम् । प्राप्तव्यं जायतेऽवश्यं तत्र शोकस्य का क्रमः ॥४८॥ प्रवत्तेते यदाकार्ये जनो ननु तदैव सः । मृतश्चिरं मृते तस्मिन् किं शोकः क्रियतेऽधुना ।। ४९ ॥ यः सदा परमप्रीत्या हिताय जगतो रतः । समाहितमतिर्बादं प्रजाकर्मणि पंडितः ॥ ५० ॥ सर्वशास्त्रार्थसंबोधक्षालितात्मापि रावणः । मोहेन बलिना नीतोऽवस्थामेतां सुदारुणाम् ॥५१॥ असौ विनाशमतेन प्रकारेणानुभूतवान् । नूनं विनाशकाले हि नृणां ध्वांतायते मतिः ॥५२॥ रामीयवचनस्यांते प्रभामंडलपंडितः । जगाद वचनं विभ्रन्माधुर्य परमोत्कटम् ॥५३॥ विभीषण रणे भीमे युध्यमानो महामनाः । मृत्युना वीरयोगेन रावणः स्वस्थितिं श्रितः ॥५४॥ किं तस्य पतितं यस्य मानो न पतितः प्रभोः । नन्वत्यंतमसौ धन्यो योऽसून्प्रत्ययसुचत ॥५५॥ महासत्वस्य वीरस्य शोच्यं तस्य न विद्यते । शचंदमसमा लोके शोच्याः पार्थिवगोत्रजाः ५६ लक्ष्मीहरिध्वजो दूतो बभूवाक्षपुरे नृपः । अरिंदम इति ख्यातः पुरंदरसमश्रिया ।। ५७॥ स जित्वा शत्रुसंघातं नानादेशव्यवस्थितम् । प्रत्यागच्छनिजं स्थानं देवीदर्शनकांक्षया ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org