________________
सप्तसप्ततितमं पर्व |
विरहामिप्रदीप्तानि भृशं सुंदरविभ्रम । कांत विध्यापयांगानि प्रसीद प्रणयिप्रिय ॥ ३३ ॥ अवस्थामेतिकां प्राप्तमिदं वदनपंकजम् । प्रियस्य हृदयालोक्य दीर्घते शतधा न किम् ॥ ३४ ॥ वज्रसारमिदं नूनं हृदयं दुःखभाजनम् । ज्ञाश्वापि यत्तवावस्थामिमां तिष्ठति निर्दयम् ॥ ३५ ॥ विधे किं कृतमस्माभिर्भवतः सुंदरेतरम् । विहितं येन कर्मेदं त्वया निर्दय दुष्करम् ॥ ३६ ॥ समालिंगनमात्रेण दूरं निर्धूय मानकम् । परस्परार्पणस्वादु नाथ यन्मधु सेवितम् ॥ ३७ ॥ यच्चान्यत्प्रमदा गोत्रग्रहणस्खलिते सति । कांचीगुणेन नीतोऽसि बहुशो बंधनं प्रियम् ॥ ३८ ॥ वर्त सेंदीवराघातात्कोप प्रस्फुरिताधरम् । प्रापितोऽसि प्रभो यच्च किंजल्कोच्छ्रसितालिकम् ॥ ३९ ॥ प्रेमकोपविनाशाय यच्चातिप्रियवादिना । कृतं पादार्पणं मूर्ध्नि हृदयद्रव कारणम् ॥ ४० ॥ यानि चात्यंत रम्याणि तानि परमेश्वर । कांत चाटुसमेतानि सेवितानि यथेप्सितम् ॥ ४१ ॥ परमानंदकारीणि तदेतानि मनोहर । अधुना स्मर्यमाणानि दहंति हृदये भृशम् || ४२ ॥ कुरु प्रसादमुत्तिष्ठ पादावेषा नमामि ते । न हि प्रियजने कोपः सुचिरं नाथ शोभते ॥ ४३ ॥ एवं रावणपत्नीनां श्रुत्वापि परिदेवनम् । कस्य न प्राणिनः प्राप्तं हृदयं द्रवतामलम् ॥ ४४ ॥ अथ पद्माभसौमित्री साकं खेचरपुंगवैः । स्नेहगर्भ परिष्वज्य वाष्पापूरितलोचनौ ॥ ४५ ॥
पद्मपुराणम् ।
Jain Education International
७६
For Private & Personal Use Only
www.jainelibrary.org