________________
पद्मपुराणम् ।
सप्तसप्ततितम पर्व। विधाय वदनांभोज काचिदंके सुविहला । वक्षःस्थलपरामर्शकारिणी मूञ्छिता मुहुः ॥२०॥ हा हा नाथ गतः कासि त्यक्त्वा मामतिकातराम् । कथं नाऽपेक्षसे दुःखनिमग्नं जनमात्मनः२१ स त्वं सत्वयुतः कांतिमंडनः परमद्युतिः । विभूत्या शक्रसंकाशो मानी भरतभूपतिः ॥ २२ ॥ प्रधानपुरुषो भूत्त्वा महाराज मनोरमः । किमर्थं स्वपिषि क्षोण्यां विद्याधरमहेश्वरः ॥ २३ ॥ उत्तिष्ठ कांत कारुण्य-पर स्वजनवत्सल । अमृतप्रतिमं वाक्यं यच्छैकमपि सुंदरम् ॥ २४ ॥ अपराधविमुक्तानामस्माकं सक्तचेतसाम् । प्राणेश्वर किमित्येवं स्थितस्त्वं कोपसंगतः ॥ २५ ॥ परिहासकथासक्तं दंतज्योत्स्नामनोहरम् । वदनेंदुमिमं नाथ सकृद्वारय पूर्ववत् ॥ २६ ॥ वरांगनापरिक्रीडास्थानेस्मिन्नपि सुंदरे । वक्षःस्थले कथं न्यस्तं पदं ते चक्रधारया ॥ २७ ॥ बंधकपुष्पसंकाशस्तवायं दशनच्छदः। नर्मोत्तरप्रदानाय कथं स्फुरति नाधुना ॥२८॥ प्रसीद न चिरं कोपः सेवितो जातुचित्वया । प्रत्युतास्माकमेवत्वमकरोः सान्त्वनं पुरा ॥२९॥ उदपाद्येष यस्त्वत्तः कल्पलोकात्परिच्युतः । बंधने मेघवाहोऽसौ दुःखमास्ते तथेंद्रजित् ॥ ३०॥ विधाय सुकृतज्ञेन वीरेण गुणशालिना । पद्माभेन सह प्रीतिं भ्रातृपुत्रौ विमोचय ॥३१॥ जीवितेश समुत्तिष्ठ प्रयच्छ वचनं प्रियम् । सुचिरं देव किं शेषे विधत्स्व नृपतेः क्रियाम् ॥३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org