________________
पद्मपुराणम् ।
सप्तसप्ततितम पर्व । कष्टं भूमितले देव विद्याधरमहेश्वर । कथं सुप्तोऽसि लंकेश भोगदुर्ललितात्मकः ॥ ७॥ उत्तिष्ठ देहि मे वाक्यं चारुवाक्यगुणाकर । साधारय कृपाधार मग्नं मां शोकसागरे ॥ ८॥ एतस्मिन्नतरे ज्ञातं दशानननिपातनम् । क्षुब्धमंतःपुरं शोकमहाकल्लोलसंकुलम् ॥९॥ सर्वाश्च वनिता वाष्पधारासिक्तमहीतलाः । रणक्षोणी समाजग्मुर्मुहुः प्रस्खलितकमाः ॥ १० ॥ तं चूडामणिसंकाशं क्षितेरालोक्य सुंदरम् । निश्चेतनं पति नार्यो निपेतुरतिवेगतः ॥ ११ ॥ रंभा चंद्रानना चंद्रमंडलाब्जवरोर्वशी । मंदोदरी महादेवी सुंदरी कमलानना ॥ १२ ॥ रूपिणी रुक्मिणी शीला रत्नमाला तनूदरी । श्रीकांता श्रीमती भद्रा कनकामा मृगावती १३ श्रीमाला मानवी लक्ष्मीरानंदानंगसुंदरी । वसुंधरा तडिन्माला पना पद्मावती सुखा ॥ १४ ॥ देवी पद्मावती कांतिः प्रीतिः संध्यावली शुभा । प्रभावती मनोवेगा रतिकांता मनोवती॥१५॥ अष्टादशैवमादीनां सहस्राणि सुयोषिताम् । परिवार्य पतिं चक्रुराक्रंदं सुमहाशुचा ॥ १६ ॥ काश्चिन्मोहं गताः सत्यः सिक्ताश्चंदनवारिणा । समुत्प्लुतमृणालानां पद्मिनीनां श्रियं दधुः १७ आश्लिष्टदयिताः काश्चिद्गाढं मूर्छामुपागताः । अंजनाद्रिसमासक्तसंध्यारेखाद्युतिं दधुः ॥१८॥ नियूंढमूर्छनाः काश्चिदुरस्ताडनचंचलाः । घनाघनसमासंगितडिन्मालाकृतिं श्रिताः ॥ १९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org