________________
पद्मपुराणम।
७३
सप्तलततित पर्छ।
परिक्षये सति सुकृतस्य कर्मणः । खलामिमां प्रकृतिमितो दशाननः ॥ ४२ ॥ धिगीदृशीं श्रियमतिचंचलात्मिकां । विवर्जितां सुकृतसमागमाशया ॥
इति स्फुटं मनसि निधाय भो जना-स्तपोधना भवत खेर्जितौजसः ॥ ४३ ॥ इत्याचे रविषेणाचार्यप्रोक्ते पनपुराणे दशग्रीववधाभिधानं नाम षट्सप्ततितम पर्व ।
अथ सप्तसप्ततितमं पर्व। सोदरं पतितं दृष्ट्वा महादुःखसमन्वितः । क्षुरिकायां कर चक्रे स्ववधाय विभीषणः ॥ १॥ .. वारयंती वधं तस्य निश्चेष्टीकृतविग्रहा । सो कालं कियंतं च चकारोपकति पराम् ॥ २॥ लब्धसंज्ञो जिघांसुः स्वं तापं दुःसहमुद्वहन् । रामेण विधुतः कृच्छ्रादुत्तीये निजतो स्थात् ॥३॥ त्यक्तास्त्रकवचो भूम्यां पुनर्मूर्छामुपागतः । प्रतिबुद्धः पुनश्चक्रे विलापं करुणाकरम् ॥ ४ ॥ हा भ्रातः करुणोदार शूर संश्रितवत्सल । मनोहर कथं प्राप्तोऽस्यवस्थामिति पापिकाम् ॥५॥ किं तम्मद्वचनं नाथ गद्यमानं हितं परम् । न मानितं यतो युद्धे वीक्षे त्वां चक्रताडितम् ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org