________________
पद्मपुराणाम् ।
पदसप्ततितम पर्व । हिरण्यकशिपुक्षिप्तं हरिणेव तदायुधम् । निवारयितुमुधुक्तः संरब्धो रावणः शरैः ॥ ३० ॥ भूयर्थडेन दंडेन जविना पविना पुनः । तथाऽपि दौकते चक्त्रं वक्र पुण्यपरिक्षये ॥ ३१ ॥ चंद्रहासं समाकृष्य ततोऽभ्यर्णत्वमागतम् । जघान गहनोत्सर्पिस्फुलिंगांचितपुष्करम् ॥३२॥ स्थितस्याभिमुखस्यास्य राक्षसेंद्रस्य शालिनः । तेन चक्रेण निर्भिन्न वज्रसारमुरःस्थलम् ॥३३॥ उत्पातवातसन्नुन्नमहाजनगिरिप्रभः । पपात रावणः क्षोण्यां पतिते पुण्यकर्मणि ।। ३४ ॥ रतेरिव पतिः सुप्तश्युतः स्वर्गादिवामरः । महीस्थितो रराजासौ सैदष्टदशनच्छदः ॥ ३५ ॥ स्वामिनं पतितं दृष्ट्वा सैन्यं सागरनिस्वनम् । शीर्ण वितानतां प्राप्तं पर्यस्तच्छत्रकेतुकम् ॥३६॥ उत्सारय रथं देहि मार्गमश्वामितो नय । प्राप्तोऽयं पृष्ठतो हस्ती विमानं कुरु पार्श्वतः ॥ ३७॥ पतितोऽयमहो नाथः कष्टं जातमनुत्तमम् । इत्यालापमलं भ्रांतं बलं तत्रैव विह्वलम् ॥ ३८ ॥ अन्योन्यापूरणाशक्तान्महाभयविकंपितान् । दृष्ट्वा निःशरणानेताञ्जनान्पतितमस्तकान् ॥ ३९ ॥ किष्किधपतिवैदेहसमीरणसुतादयः । न भेतव्यं न भेतव्यमिति साधारमानयन् ॥ ४० ॥ भ्रमितोपरिवस्त्रांत: पल्लवानां समंततः । सैन्यमाश्वासितं तेषां वाक्यैः कर्णरसायनैः ॥४१॥
तथाविधां श्रियमनुभूय भूयसीं । कृताद्भुतां जगति समुद्रवारिते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org