________________
पद्मपुराणम् ।
षट्सप्ततितमं पर्व । उत्पन्नचक्ररत्नेन लक्ष्मणेनाथ रावणः । विभीषणास्यमालोक्य जगदे पुरुतेजसा ॥ १७ ॥ अद्यापि खगसंपूज्य समर्प्य जनकात्मजाम् । रामदेवप्रसादेन जीवामीति वचो वद ।। १८ ॥ ततस्तथाविधैवेयं तव लक्ष्मीरवस्थिता । विधाय मानभंगं हि संतो यांति कृतार्थताम् ॥ १९ ॥ रावणेन ततोऽवोचि लक्ष्मणः स्मितकारिणा । अहो कारणनिमुक्तो गर्वः क्षुद्रस्य ते मुधा ॥२०॥ दर्शयाम्यद्य तेऽवस्था यां तामनुभवाधम । अहं रावण एवाऽसौ स च त्वं धरणीधरः ॥ २१ ॥ लक्ष्मणेन ततोऽभाणि किमत्र बहुभाषितैः । सर्वथाऽहं समुत्पन्नो हंता नारायणस्तव ॥ २२ ॥ उक्तं तेन निजाकूताद्यदि नारायणायसे । इच्छामात्रात्सुरेन्द्रत्वं करमान्न प्रतिपद्यसे ॥ २३ ॥ निर्वासितस्य ते पित्रा दुःखिनो वनचारिणः । अपनपाविहीनस्य ज्ञाता केशवता मया ॥ २४ ॥ नारायणो भवाऽन्यो वा यत्ते मनसि वर्त्तते । विस्फूर्जितं करोत्येष तव भग्नमनोरथम् ॥ २५ ॥ अनेनात्मातचक्रेण किल त्वं कृतितां गतः । अथवा क्षुद्रजंतूनां खलेनाऽपि महोत्सवम् ॥ २६ ॥ सहामीभिः खगैः पापैः सचक्र सहवाहनम् । पाताले त्वां नयाम्यद्य कथितेनापरेण किम् ॥२७॥ एवमुक्तं समाकर्ण्य नवनारायणो रुषा । प्रभ्रम्य चक्रमुद्यम्य चिक्षेप प्रति रावणम् ॥ २८ ॥ वज्रप्रभवमेघौषधोरनिर्घोषभीषणम् । प्रलयार्कसमच्छायं तचक्रमभवत्तदा ॥ २९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org