________________
पद्मपुराणम् !
पंचसप्ततितमें पर्व |
वैदूर्यारसहस्रेण युक्तं दर्शनदुःसहम् | सदा यक्षसहस्रेण कृतरक्षं प्रयत्नतः ॥ ४६ ॥ महासंरंभसंबंधकृतांताननसन्निभम् । चिंतानंतरमेतस्य चक्रं सन्निहितं करे ॥ ४७ ॥ कृतस्तत्र प्रभास्त्रेण निष्प्रभो ज्योतिषां पतिः । चित्रार्पितरविच्छायमात्रशेषो व्यवस्थितः ॥ ४८ ॥ गंधर्वाऽप्सरसो विश्वा-वसुतुंबुरुनारदाः । परित्यज्य रणप्रेक्षां गताः कापि विगीतिकाः ॥ ४९ ॥ मर्तव्यमिति निश्चित्य तथाप्यत्यंतधीरधीः । शत्रुं तथाविधं वीक्ष्य पद्मनाभानुजोऽवदत् ॥ ५० ॥ संगतेनामुना किं त्वं स्थितोऽस्यैवं कदर्यवत् । शक्तिचेदस्ति ते काचित्प्रहरस्व नराधम ॥ ५१ ॥ इत्युक्तः परमं क्रुद्धों दन्तदष्टरदच्छदः । मंडलीकृत विस्फारिप्रभापटललोचनः ॥ ५२ ॥ क्षुब्धमेघकुलस्वानं प्रभ्रम्य सुमहाजवम् । चिक्षेप रावणश्चक्रं जनसंशयकारणम् ॥ ५३ ॥ दृष्ट्वाऽभिमुखमागच्छत्तदुत्पातार्कसंनिभम् । निवारयितुमुद्युक्तो वज्रास्यैर्लक्ष्मणः शरैः ॥ ५४ ॥ वज्रावर्त्तेन पद्माभो धनुषा वेगशालिना । हलेन चोग्रपात्रेण भ्राम्यते नाऽन्यबाहुना ॥ ५५ ॥ संभ्रमं परमं विभ्रत्सुग्रीवो गदया तदा । मंडलाग्रेण तीक्ष्णेन प्रभामंडलसुंदरः ॥ ५६ ॥ अरातिप्रतिकूलेन शूलेनासौ विभीषणः | उल्कामुद्गरलांगूलकनकाद्यैर्मरुत्सुतः ॥ ५७ ॥ अंगदः पारदेनांग कुठारेणोरुतेजसा । शेषा अपि तथा शेषैः शस्त्रैः खेचरपुंगवाः ॥ ५८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org