________________
६७
पद्मपुराणम् ।
पंचसप्ततितम पर्व । चक्रे शक्तिकुंतादिशस्त्रवर्षेण रावणः । शक्तश्छादयितुं बाहुसहस्रैरपि लक्ष्मणम् ॥ ३३ ॥ लक्ष्मणोऽपि परं क्रुद्धो विषादपरिवर्जितः । अर्कतुंडै शरैः शत्रु प्रच्छादयितुमुद्यतः ॥ ३४ ॥ एकं द्वे त्रीणि चत्वारि पंच पद दश विंशतिः । शतं सहस्रमयुतं चिच्छेदारिशिरांसि सः ॥३५॥ शिरःसहस्रसंछन्नं पतद्भिः सह बाहुभिः । सोल्कादंडं पतज्ज्योतिश्चक्रमासीदिवांबरम् ॥ ३६ ॥ सबाहुमस्तकच्छन्ना रणक्षोणी निरन्तरम् । सनागभोगराजीव खंडशोभामधारयत् ॥३७॥ समुत्पन्न समुत्पन्न शिरो बाहुकदम्बकम् । रक्षसो लक्ष्मणोच्छित्त कर्मेव मुनिपुंगवः ॥ ३८ ॥ गलद्रुधिरधाराभिः संतताभिः समाकुलम् । वियत्संध्याविनिर्माणं समुद्भूतमिवापरम् ।। ३९ ।। असंख्यातभुजः शत्रुर्लक्ष्मणेन द्विबाहुना । महानुभावयुक्तेन कृतो निष्फलविग्रहः ।। ४० ॥ निरुच्यासाननः स्वेदबिन्दुजालचिताननः । सत्त्ववाताकुलस्वांगः संवृत्तो रावणः क्षणम्॥४१॥ तावच्छ्रेणिक निवृत्ते तस्मिन्संख्येऽतिरोरवे । स्वभावावस्थितो भूत्वा रावणः क्रोधदीपितः ॥४२॥ युगावसानमध्याह्नसहस्रकिरणप्रभः । परपक्षक्षयक्षीवश्चक्ररत्नमचिंतयत् ॥ ४३ ॥ अप्रमेयप्रभाजालं मुक्ताजालपरिष्कृतम् । स्वयं प्रभास्वरं दिव्यं वज्रतुंडं महाद्भुतम् ॥ ४४ ॥ नानारत्नपरीतांग दिव्यमालानुलेपनम् । अग्निप्राकारसंकाशं धारामंडलदीधितिम् ॥ ४५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org