________________
पद्मपुराणम् ।
पंचसप्ततितम पर्व। गृह्णाति रावणो यद्यदलं शस्त्रविशारदः । छिनत्ति लक्ष्मणस्तत्तत्परमास्त्रविशारदः॥२०॥ ततः पतत्रिसंघातैरस्य पत्रीन्द्रकेतुना । सर्वा दिशः परिच्छन्ना जीमूतैरिव भूभृतः ॥ २१ ॥ ततो भगवती विद्या बहुरूपविधायिनीम् । प्रविश्य रक्षसामीशः समरक्रीडनं श्रितः ॥ २२ ॥ लक्ष्मीधरशरैस्तीक्ष्णैः शिरो लंकापुरीप्रभोः । छिन्नं छिन्नमभूयः श्रीमत्कुंडलमंडितम् ॥ २३ ॥ एकस्मिन् शिरसिच्छिन्ने शिरोद्वयमजायत । तयोरुत्कृत्तयोवृद्धिं शिरांसि द्विगुणां ययुः ॥ २४ ॥ निकृत्ते बाडुयुग्मे च जज्ञे बाहुचतुष्टयम् । तस्मिन् छिन्ने ययौ वृद्धि द्विगुणा बाहुसंततिः ॥२५॥ सहस्रैरुत्तमांगानां भुजानां चातिभूरिभिः । पद्मखंडैरगण्यैश्च ज्ञायते रावणो वृतः ॥२६॥ नभःकरिकराकारैः करैः केयूरभूषितैः । शिरोभिश्वाभवत्पूर्ण शस्त्ररत्नांशुपिंजरम् ।। २७ ॥ शिरोग्राहसहस्रोग्रस्तुंगवाहुतरंगभृत् । अवर्द्धत महाभीमो राक्षसाधिपसागरः ॥ २८ ॥ बाहुसौदामिनीदंडप्रचंडो घोरनिस्वनः । शिरःशिखरसंघातैर्ववृधे रावणांबुदः ॥ २९ ॥ बाडुमस्तकसंघट्टनिःस्वनच्छत्रभूषणः । महासैन्यसमानोऽभूदेकोऽपि त्रिककुप्पतिः ॥३०॥ पुराऽनेकेन युद्धोऽहमधुनैकाकिनाऽमुना । युद्धे कथमितीवायं लक्ष्मणेन बहूकृतः ॥ ३१ ॥ रत्नशस्त्रांशुसंघातकरजालप्रदीपितः । संजातो राक्षसाधीशो दह्यमानवनोपमः ॥ ३२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org