________________
पद्मपुराणम्।
पंचसप्ततितमं पर्व। यक्षकिनरगंधर्वाप्सरसो विस्मयं गताः । साधुशब्दविमिश्राणि पुष्पवर्षाणि चिक्षिपुः ॥ ७ ॥ चंद्रवर्धननाम्नोथ विद्याधरजनप्रभोः। अष्टौ दुहितरो व्योनि विमानशिखरस्थिताः॥ ८॥ अप्रमत्तैमहाशंकः कृतरक्षमहत्तरैः । पृष्टाः संगतिमताभिरप्सरोभिः कुतूहलाद ॥९॥ का यूयं देवताकारा भक्तिं लक्ष्मणसुंदरे । दधाना इव वर्तध्ये सुकुमारशरीरिकाः ॥ १० ॥ सलज्जा इव ता ऊचुः श्रूयतां यदि कौतुकम् । वैदेहीवरणे पूर्वमस्माभिः सहितः पिता ॥ ११ ॥ आसीद्गतः तदाम्थानं राज्ञां कौतुकचोदितः । दृष्ट्वा च लक्ष्मणं तत्र ददावस्मै धियैव नः ॥१२॥ ततोऽधिगम्य मात्रातो वृत्तमेतन्निवेदितम् । दर्शनादेव चाऽऽरभ्य मनस्येष व्यवस्थितः ॥ १३ ॥ सोऽयं महति संग्रामे वर्तते संशयावहे । भविष्यति कथं त्वेतदिति वियो न दुःखिताः ॥१४॥ अस्य मानवचंद्रस्य हृदयेशस्य या गतिः । लक्ष्मीधरकुमारस्य सैवास्माभिर्विनिश्चिता ॥ १५॥ मनोहरस्वनं तासां श्रुत्वा तद्वचनं ततः । चक्षुरू नियुजानो लक्ष्मणस्ता व्यलोकत ॥ १६ ॥ तदर्शनात्परं प्राप्ताः प्रमोदं ताः सुकन्यकाः । सिद्धार्थः सर्वथा नाथ भवेत्युदगिरन् स्वनम् ॥१७॥ सिद्धार्थशब्दनात्तस्मात् स्मृत्वा विहसिताननः । अस्त्रं सिद्धार्थनामानं लक्ष्मणः कृतितां गतः १८ स सिद्धार्थमहास्त्रेण क्षिप्रं विघ्नविनायकम् । अस्वमस्तगतं कृत्वा सुदीप्तं योद्धुमुद्यतः ॥ १९॥ :
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org