________________
पद्मपुराणम्।
चतुःसप्ततित्तम पर्व । अयं राघवदेवोऽद्य समस्तवसुधापतिः । चौरस्य ते वधं कर्तुं समादिशति धर्मधीः ॥ ९ ॥ अवोचल्लक्ष्मणं कोपी विंशत्यर्धाननस्ततः । मूढ ते किं न विज्ञात लोके प्रख्यातमीदृशम् ॥११॥ यच्चारु भूतले सारं किंचिद्रव्यं सुखावहम् । अर्हामि तदहं राजा तच्चापि मयि शोभते ॥९२ ।। न गजस्योचिता घंटा सारमेयस्य शोभते । तदत्र का कथाऽद्यापि योग्यद्रव्यसमागमे ॥ ९३ ॥ त्वया मानुषमात्रेण यत्किचनविलापिना । विधातुमसमानेन युद्धं दीनेन लज्जते ॥ ९४ ॥ विप्रलब्धस्तथाप्येतैयुद्धं चेत्कर्तुमर्हसि । प्रव्यक्तं काललब्धोऽसि निर्वेदीवासि जीविते ॥ ९५ ।। ततो लक्ष्मीधरोऽवोचद्वेमि त्वं यादृशः प्रभुः । अद्य ते गर्जितं पाप हरामि किमिहोदितैः॥१६॥ इत्युक्तो रावणो वाणैः स वाणैः कैकयीसुतम् । प्रावृषेण्यघनाकारो गिरिकल्पं निरुद्धवान् ॥९॥ वज्रदंडैः शरैस्तस्य विशाल्यारमणः शरान् । अदृष्टचापसंबंधैरंतराले न्यवारयत् ॥ ९८॥ छिन्नैर्विपाटितैः क्षोदं गतैश्च विशिखोत्करैः । द्यौश्च भूमिश्च संजाता विवेकपरिवर्जिता ॥ ९९ ॥ कैकयीसू नुना व्यस्त्रः कैकसीनंदनः कृतः । माहेन्द्रमस्त्रमुत्सृष्टं चकार गगनासनम् ॥ १० ॥ संप्रयुज्य समीरास्त्रमस्त्रक्रमविपश्चिता । सौमित्रिणा परिध्वंसं तं नीतं क्षणमात्रतः ॥ १०१॥ भूयः श्रेणिक संरंभस्फुरिताननतेजसा । रावणेनास्त्रमानेयं क्षिप्तं ज्वलितसर्वदिक् ॥१०२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org