________________
पद्मपुराणम् ।
६१
चतुःसप्ततितमं पर्व ।
ततो मयं पुरके सुसंधो विभीषणः । तयोरभूत्परं युद्धमन्योन्यशरताडितम् ॥ ७७ ॥ विच्छिन्नकवचं दृष्ट्रा कैकसीनंदनं ततः । रक्ताशोकद्रुमच्छायं प्रसक्तरुधिरस्रुतिम् ॥ ७८ ॥ निरीक्ष्योन्मत्तभूतं च परित्रस्तं पराङ्मुखम् | कपिध्वजवलं शीर्ण रामो योद्धुं समुद्यतः ॥ ७१ ॥ विद्याकेसरयुक्तं च रथमारुह्य सत्वरम् । मा भैषीरिति सस्वानो दधाव विहितस्मितः ॥ ८० ॥ स तडित्प्रावृडंभोदघन संघ संनिभम् । विवेश परसैन्यं स वालार्कप्रतिमद्युतिः ॥ ८१ ॥ तस्मिन्परबलध्वंसं नरेंद्रे कर्त्तुमुद्यते । वातिवैदेहसुग्रीव कैकसेया धृतिं ययुः ॥ ८२ ॥ शाखामृगबलं भूयः कर्त्तुं युद्धं समुद्यतम् । रामतो बलमासाद्य व्यक्तनिःशेषसाध्वसम् ॥ ८३ ॥ प्रवृत्ते शस्त्रसंपाते सुराणां रोमहर्षणे । लोकोऽन्य इव संजातस्तदालोकविवर्जितः || ८४ ॥ ततः पद्मो मयं बाणैर्लग्नञ्छादयितुं भृशम् । स्वल्पेनैव प्रयासेन वज्रीव चमरासुरम् || ८५ ॥ मयं विह्वलितं दृष्ट्रा नितांतं रामसायकैः । दधाव रावणः क्रुद्धः कृतांत इव तेजसा ।। ८६ ।। अथ लक्ष्मणवीरेण भाषितः परमौजसा । प्रस्थितः क मया दृष्टो भवानद्यापि भो खग ॥ ८७ ॥ तिष्ठ तिष्ठ रणं यच्छ क्षुद्र तस्कर पापक । परस्त्रीदीपशलभ पुरुषाधम दुष्क्रिय ॥ ८८ ॥ अद्य प्रकरणं तत् करोमि कृतसाहसम् । कुर्यान्नवापि यत्कुद्धः कृतांतोऽपि कुमानसः ।। ८९ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org