________________
पद्मपुराणम् ।
चतुःसप्ततितम पर्व । तथाऽशनिरथाद्याश्च राक्षसीया महानृपाः । उत्थिता वेगिनो योधास्तेषां साधारणोद्यताः ॥६४॥ भूधराचलसंमेदविकालकुटिलांगदाः । सुषेणकालचक्रोमितरंगाद्याः कपिध्वजाः ॥६५॥ तेषामभिमुखीभूता निजसाधारणोद्यताः । नालाक्ष्यत भटः कश्चित्तदा प्रतिभटोज्झितः ॥ ६६ ॥ अंजनायाः सुतस्तस्मिन्नारुह्य द्विपयोजितम् । रथं क्रीडति पद्माढ्ये सरसीव महागजः ॥ ६७ ।। तेन श्रेणिक शरेण रक्षसां सुमहद्वलम् । कृतमुन्मत्त कीभूतं यथारुचितकारिणा ॥ ६८॥ एतस्मिन्नंतरे क्रोधसंगदृषितलोचनः । प्राप्तो मयमहादैत्यः प्रजहार मरुत्सुतम् ॥६९॥ उद्धृत्य विशिखं सोऽपि पुंडरीकनिभेक्षणः । शरवृष्टिभिरुग्राभिरकरोद्विरथं मयम् ।। ७० ॥ स रथांतरमारुह्य पुनर्योढुं समुद्यतः । श्रीशैलेन पुनस्तस्य सायकैर्दलितो रथः ॥ ७१ ॥ मयं विह्वलमालोक्य विद्यया बहुरूपया । रथं दशमुखः सृष्टं प्रहिणोतिस सत्वरम् ॥ ७२ ॥ स तं रथं समारुह्य नाना प्रज्वलितोत्तमम् । संबाध्य विरथं चके हनूमंतं महाद्युतिः ॥७३॥ धावमानां समालोक्य वानरध्वजिनी भटाः । जगुःप्राप्तमिदं नाम कृतात्यंतविपर्ययम् ॥ ७४ ॥ वाति व्यस्वकृतं दृष्टा वैदेहः समधावत । कृतो विस्यंदनः सोऽपि मयेन शरवर्षिणा ।। ७५ ॥ ततः किष्किन्धराजोऽस्य कुपितोऽवस्थितः पुरः । निरस्त्रोऽसावपि क्षोणी तेन दैत्येन लंभितः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org