________________
पद्मपुराणम् ।
चतुःसप्ततितम पर्व । स्फुरणेन पुनर्ज्ञात्वा जीवतीति ससंभ्रमा । निवर्तते यथा भीता डाकिनी मंत्रवादिनः ॥५१॥ शूरं विज्ञाय जीवंतं विभ्यती विहगी शनैः । दुष्टनारीव साशंका चलनेत्रासर्पति ॥५२॥ शुभाशुभा च जंतूनां प्रकृतिस्तत्र लक्ष्यते । प्रत्यक्षादविशिष्टैव भंगेन विजयेन च ॥ ५३॥ केचित्सुकृतसामर्थ्याद्विजयंते बहून्यपि । कृतपापाः प्रपद्यते बहवोऽपि पराजयम् ॥ ५४॥ मिश्रितं मत्सरेणापि तयो यैरर्जितं पुरा । ते जयंति विजीयंते तत्र प्रलयमागते ॥ ५५ ॥ धर्मो रक्षति मर्माणि धर्मो जयति दुर्जयम् । धर्मः संजायते पक्षः धर्मः पश्यति सर्वतः ॥ ५६ ॥ रथैरश्वयुतैर्दिव्यैरिभैर्भूधरसन्निभैः । अश्वैः पवनरंहोभिर्भूत्यैरसुरभासुरैः ॥ ५७ ॥ न शक्यो रक्षितुं पूर्व सुकतेनोज्झितो नरः । एको विजयते शत्रु पुण्येन परिपालितः॥५८॥ एवं संयति संवृत्ते प्रवीरभटसंकटे । योधा व्यवहिता योधैरवकाशं न लेभिरे ।। ५९ ॥ उत्पतद्भिः पतद्भिश्च भटैरायुधभासुरैः । उत्पातघनसंछन्नमिव जातं नभस्तलम् ॥ ६० ॥ मारीचचंद्रनिकरवजाक्षशुकसारणैः । अन्यैश्च राक्षसाधीशैलमुत्सारितं द्विषाम् ॥ ६१॥ श्रीशैलेन्दुमरीचिभ्यां नीलेन कुमुदेन च । तथा भूतस्वनाद्यैश्च विध्वस्तं रक्षसां बलम् ॥ ६२ ॥ कुंदः कुंभो निकुंभश्च विक्रमः क्रमणस्तथा । श्रीजंबुमालिवीरश्च सूर्यारो मकरध्वजः॥१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org