SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ५८ चतुःसप्ततितम पर्व । गंधर्वाप्सरसस्तेषां बलद्वितयवर्तिनाम् । नभःस्थिता नृवीराणां पुष्पाणि मुमुचुर्मुहुः ॥ ३८ ॥ पादातैः परिता गुप्ता निपुणाधोरणेरिताः । अंजनाद्रिसमाकाराः प्रसनुमत्तदंतिनः ॥ ३९ ॥ दिवाकररथाकारा रथाः प्रचलवाजिनः । युक्ताः सारथिभिः सांद्रनादाः परमरंहसः॥ ४० ॥ वबल्गुः परमं हृष्टाः समुल्लासितहेतयः । पदातयो रणक्षोण्यां सगर्वा बद्धमंडलाः ॥४१॥ स्थूरीपृष्ठसमारूढाः खगर्टिप्रासपाणयः । खेटकाच्छादितोरस्काः संख्यक्ष्मां विविशुर्भटाः ॥४२॥ आस्तृणंत्यभिधावंति स्पर्धन्ते निर्जयन्ति च । जीयंते नंति हन्यते कुर्वन्ति भटगर्जितम् ॥४३॥ तुरगाः कचिदुद्दीप्ता भ्रमंत्याकुलमूर्तयः । कचमुष्टिगदायुद्धं प्रवृत्तं गहनं कचित् ॥ ४४ ॥ केचित्खड्गक्षतोरस्काः केचिद्विशिखताडिताः । केचित्कुंताहताः शत्रु ताडयंति पुनस्तथा ॥४५॥ सततं लालितः केचिदभीष्टार्थानुसेवनैः । इंद्रियैः परिमुच्यते कुमित्ररिव भूमिगाः ॥ ४६ ॥ गलदंत्रचयाः केचिदनावृत्योरुवेदनाम् । पतंति शत्रुणा साधं दंतनिष्पीडिताधराः ॥४७॥ प्रासादशिखरे देव कुमारप्रतिमौजसः । प्रचिक्रीडुमहाभोगा ये कांतातनुलालिताः ॥४८॥ ते चक्रकनकच्छिन्नाः संग्रामक्षितिशायिनः । भक्ष्यते विकृताकारा गृध्रगोमायुपंक्तिभिः ॥४९॥ नखक्षतकृताकूता कामिनीव शिवा भटम् । वहंती संगमप्रीतिं प्रसुप्तमुपसर्पति ॥ ५० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy