________________
पद्मपुराणम् ।
चतुःसप्ततितमं पर्व ।
मा भैषीर्दयिते तिष्ठ निवर्त्तस्व शुचं त्यज । अहं लंकेश्वरं जित्वा प्रत्येम्यद्य तवांतिकम् ॥ २५ ॥ इति गर्वोत्कटा वीरा समाश्वास्य वरांगनाः । अंतःपुरात्सुसन्नद्धा विनिर्जग्मुर्यथायथम् ॥ २६ ॥ परस्परप्रतिस्पर्द्धावेगचोदितवाहनाः । रथादिभिर्ययुर्योधाः शखावेक्षणचंचलाः ॥ २७ ॥ रथं महेभसंयुक्तं गंभीरोदारनिस्वनम् । भूतस्वनः समारूढो विरेजे खेचराधिपः ॥ २८ ॥ तेनैव विधिनाऽन्येपि विद्याधरजनाधिपाः । सहर्षाः प्रस्थिता योद्धुं क्रुद्धा लंकेश्वरं प्रति ॥२९॥ तं प्रति प्रसृता वीराः क्षुब्धां भोधिसमाकृतिम् | संघट्टं परमं प्रापुगातुंगार्मिसन्निभाः ॥ ३० ॥ ततः शैतयशोव्याप्तभुवनौ परमाकृती | स्वावासती विनिष्क्रांती युद्धार्थौ रामलक्ष्मणौ ॥ ३१ ॥ रथे सिंहयुते चारौ संबद्धकवचो बली । नवोदित इवादित्यः पद्मनाभो व्यराजत ॥ ३२ ॥ गारुडं रथमारूढो वैनतेयमहाध्वजः । समुन्नतांबुदच्छाय छायाश्यामलितांवरः ॥ ३३ ॥ मुकुटी कुंडली धन्वी कवची सायकी कुणी । संध्यासक्तां जनांगाभ - सुमित्राजो व्यराजत ||३४|| महाविद्याधराश्चान्ये भालंकारपुरःसराः । योद्धुं श्रेणिक निर्याता नानायानविमानगाः ॥ ३५ ॥ गमने शकुनास्तेषां कृत कोमलनिस्वनाः । आनंदयन्यथा पूर्वमिष्टदेशनिवेशिनः ।। ३६ । तेषामभिमुखः क्रुद्धो महाबलसमन्वितः । प्रययौ रावणो वेगी महादावसमाकृतिः ॥ ३७ ॥
Jain Education International
५७
For Private & Personal Use Only
www.jainelibrary.org