________________
पद्मपुराणम् ।
चतुःसप्ततितम पर्व। सहस्रैर्दशभिः स्वस्य सदृशैः खेचराधिपः । वियद्वल्लभनाथायैः स्वहितैः कृतमंडलः ॥ १२ ॥ महाबलैः सुदच्छायैरभिप्रायानुवेदिभिः । क्रुद्धः सुग्रीववैदेही प्रत्यभीयाय रावणः ॥ १३ ॥ दृष्टा दक्षिणतोऽत्यन्तभीमनिःस्वानकारिणः । भल्लूका गगने गृध्रा भ्रमति छन्नभास्कराः ॥१४॥ जानंतोऽपि निमित्तानि कथयति महाक्षयम् । शौयेमानोत्कटाः कुद्धा ययुरेव महानराः ॥१५॥ पद्माभोऽपि स्वसैन्यस्थः पर्यपृच्छत्सविस्मयः । भो भो मध्येयमेतस्या नगर्यास्तेजसा ज्वलन् १६ जांबूनदमयैः कूटैः सुविशालैरलंकृतः । सतडिन्मेघसंघातच्छायः किनामको गिरिः ॥ १७ ॥ पृच्छतेऽस्मै सुषेणाद्या संमोहं समुपागताः । न शेकुः सहसा वक्तुमपृच्छच्च स तान्मुहुः ॥१८॥ ब्रूत किं नामधेयोऽयं गिरिरत्र निरीक्ष्यते । अगदञ्जाम्बवाद्यास्तमथो वेपथुमंथराः ॥ १९ ॥ दृश्यते पद्मनागोऽयं रथोऽयं बहुरूपया । विद्यया कल्पितोऽस्माकं मृत्युः स ज्वरकोविदः ॥२०॥ किष्किन्धराजपुत्रेण योऽसौ गत्वाभिरोषितः । रावणोऽवस्थितः सोऽत्र महामायामयोदयः॥२१॥ श्रुत्वा तद्वचनं तेषां लक्ष्मणः सारथिं जगौ । रथं समानय क्षिप्रमित्युक्तः स तथाऽकरोत् ॥२२॥ ततः क्षुब्धार्णवस्वाना भीमा भेर्यः समाहताः। शंखकोटिस्वनोन्मिश्राः शेषवादित्रसंगताः॥२३॥ श्रुत्वा तं निनदं हृष्टा भटा विकटचेष्टिताः । सन्नद्धा बद्धतूणीरा लक्ष्मणस्यांतिके स्थिताः॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org