________________
पद्मपुराणम् ।
चतुःसप्ततितम पर्व। अथ चतुःसप्ततितमं पर्व। विधिक्रमेण पूर्वेण सादरो मुदमुद्बहन् । आपृच्छत त्रिकूटशो दयितामित्यपि प्रियाम् ॥ १॥ का जानाति पिये भूयो दर्शनं चारुदर्शने । महाप्रतिभये युद्धे किं भवेन भवेदिति ॥ २ ॥ ऊचुस्तं दयिता नाथ नंद नंद रिपूञ्जय । द्रक्ष्यामः सर्वथा भूयः संख्यतस्त्वां समागतम् ॥३॥ इत्युक्तो दयितानेत्रसहस्रैरभिवीक्षितः । निर्जगाम बहिर्नाथो रक्षसां विकटप्रभुः ॥ ४ ॥ अपश्यञ्च शरद्भानुभास्वरं बहुरूपया । विद्यया कृतनिर्माणमैन्द्रं नाम महारथम् ॥ ५॥ युक्तं दंतिसहस्रेण प्रावृषेण्यघनत्विषा । प्रभापरिकर मेरुं जिगीषतमिव स्थितम् ॥ ६॥ मत्तास्ते करिणो गंडप्रगलदाननिर्झराः । सितपीतचतुर्दष्ट्राः शंखचामरशोभिनः ॥ ७॥ मुक्तादामसमाकीर्णमहाघंटानिनादिताः। ऐरावतसमा नानाधातुरागविभूषिताः ॥८॥ दुर्दान्ता विनयाधानभूमयो धनवर्जिताः । विरेजुः कालमेघौघसन्निभाश्चारुविभ्रमाः ॥९॥ मनोहरामकेयूरविदष्टभुजमस्तकः । तमसौ रथमारूढः शुनासीरसमद्युतिः॥१०॥ विशालनयनस्तत्र स्थितो निरुपमाकृतिः । ओजसा सकलं लोकमग्रस्रष्टेव रावणः ॥ ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org