SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । त्रिसप्ततितम पर्व । केचिद्वरतुरंगौघैर्दशार्धायुतसंकटाः । सहसा ज्योतिषां चक्रं चूर्णयंतीव वेगिनः ।। १७४ ॥ वृहद्विविधवादित्रैर्हयानां हेषितैस्तथा । गजानां गर्जितारावैः पदात्याकारितैरपि ॥ १७ ॥ योधानां सिंहनादैश्च जयशब्दैश्च वंदिनाम् । गीतैः कुशीलवानां च समुत्साहनकोविदः ॥१७६॥ इत्यन्यैश्च महानादैरेकीभूतैः समंततः । विननर्देव गगनं युगांतजलदाकुलम् ॥ १७७ ॥ जनेशिनोऽश्वरथपदातिसंकुला । परस्परातिशयविभूतिभासुराः ॥ बृहद्भुजाः कवचित्तुंगवक्षस-स्तडित्प्रभाः प्रववृतिरे जयैषिणः ॥ १७ ॥ पदातयोऽपि करवालचंचलाः । पुरो ययुः प्रभुपरितोषणैषिणः ॥ समैश्च तैर्विविधसमूहिभिः कृतं । निरर्गलं गगनतलं दिशस्तथा ॥ १७९ ॥ इति स्थिते विगतभवाभिसांचते । शुभाशुभे त्रिभुवनभाजि कर्माण ॥ जनः करोत्यतिबहुधानुचेष्टितं । न तं क्षमो रविरपि कर्तुमन्यथा ॥१२० ॥ इत्याचे रविषेणाचार्यप्रोक्ते पद्मपुराणे उद्योगाभिधानं नाम त्रिसप्ततितमं पर्व । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy