________________
पद्मपुराणम् ।
चतुःसप्ततितवं पर्व। लक्ष्मीधरेण तच्चापि वारुणास्त्रप्रयोगतः । निर्वापितं निमेषेण स्थितं कार्यविवर्जितम् ॥ १०३ ॥ कैकयेयस्ततः पापमस्त्रं चिक्षेप रक्षसि । रक्षसा तच्च धर्मास्त्रप्रयोगेण निवारितम् ॥ १०४ ॥ ततोऽस्त्रमिधनं नाम लक्ष्मणेन प्रयुज्यते । रोधनेनैव तं नीतं रावणेन हतार्थताम् ॥ १०५ ॥ फलासारं विमुंचद्भिः प्रसूनपटलान्वितम् । गगनं वृक्षसंघातैरत्यन्तगहनीकृतम् ॥ १०६ ॥ भूयस्तामसवाणोधैरंधकारीकृतांबरैः । लक्ष्मीधरकुमारेण छादितो राक्षसाधिपः ॥ १०७ ॥ सहस्रकिरणास्त्रेण तामसास्त्रमपोह्य सः । प्रायुक्त दंदशंकास्त्रं विस्फुरत्फणमंडलम् ॥ १०८ ॥ ततस्तायसमास्त्रेण लक्ष्मणेन निराकृतम् । पन्नगास्त्रं नभश्चाभूद्धेमभासेव पूरितम् ॥ १०९ ॥ संहारांबुदनिर्घोषमुरुगास्त्रमथो पुनः । पद्मनाभानुजोऽमुंचद्विषाग्निकणदुःसहम् ॥ ११०॥ बहेणास्त्रेण तद्धीरस्त्रिकूटेंदुरसारयत् । प्रयोक्षीच दुरुत्सारमत्रं विघ्नमनायकम् ॥ १११ ॥ विसृष्टे तत्र विप्रास्त्रे वांछितच्छेदकारिणि । प्रयोगे त्रिदशास्त्राणां लक्ष्मणो मोहमागमत् ॥११२॥ वज्रदंडान् शरानेव विससर्ज स भूरिशः । रावणोऽपि शरैरेव स्वभावस्थैरयुध्यत ॥ ११३ ॥ आकर्णसंहतैर्वाणैरासीयुद्धं तयोः समम् । लक्ष्मीभृद्रक्षसोर्पोरं तृपृष्ठययुकंठयोः ॥ ११४ ॥
कर्मण्युपेतेऽभ्युदयं पुराणे । संप्रेरके सत्यतिदारुणांगे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org