SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ पंद्मपुराणम्। त्रिसप्ततितम पर्व । गोपनीयानदर्शन्त प्रदेशान् सुरया स्त्रियः । वाक्यान्यभाषणीयान्यभाषत च गतत्रपाः ॥१४८॥ • चंद्रोदयेन मधुना यौवनेन च भूमिकाम् । आरूढो मदनस्तेषां तासां चात्यंतमुन्नताम् ॥१४९॥ कृतक्षतं ससीत्कारं गृहीत्वोष्ठं समाकुलम् । सुरतं भावियुद्धस्य मंगलग्रहणायितम् ॥ १५० ॥ एषोऽपि रक्षसामिन्द्रश्वारुचेष्टितसंगतः । सममानयदुद्यश्रीरन्तःपुरमशेषतः ॥ १५१॥ मुहुर्मुहुः समालिंग्य स्नेहान्मंदोदरी विभोः । अपश्यद्वदनं तृप्तिमगच्छंती सुलोचना ॥ १५२ ॥ इतः समरसंवृत्तात्परिप्राप्तजयस्य ते । आगतस्य सदा कांत करिष्याम्यवगृहनम् ॥ १५३ ॥ मोक्ष्यामि क्षणमप्येकं न त्वां भूयो मनोहर । लतेव बाहुबलिनं सांगकृतसंगतिः ॥ १५४ ॥ वदंत्यामेवमेतस्यां प्रेमकातरचेतसि । रुतं ताम्रशिखश्चके समाप्तिं च निशा गता ॥ १५५ ॥ नक्षत्रदीधितिभ्रंशे प्राप्ते संध्यारुणागमे । गीतध्वनिरभूद्रम्यो भवने भवनेऽहताम् ॥ १५६ ॥ कालाग्निमंडलाकारो रश्मिभि छादयन् दिशः। जगामोदयसंबंधं भास्करो लोकलोचनः॥१५७॥ प्रभातसमये देव्यो व्यग्राः कृच्छ्रेण सांचिताः । दयितेन मनस्यूहुः किं किमित्यतिदुःसहम् १५८ गंभीरस्ताडिता भेर्यः शंखशब्दपुरःसराः । रावणस्याऽऽज्ञया युद्धसंज्ञादानविचक्षणाः ॥ १५९ ॥ परस्परमहंकारं वहंतः परमोद्धताः । प्रहृष्टा निर्ययुर्योधा ययुद्विपरथस्थिताः ॥ १६० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy