SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ५१ त्रिसप्ततितमं पर्व | गीतानंग इवालापैर्वीणावंशादिनिःस्वनैः । जल्पतीव तदा लंका मुदिता क्षणदाऽऽगमे ।। १३५ ।। तांबूलगंधमाल्याद्यैरुपभोगैः सुरोपमैः । पितो मदिरामन्ये रमंते दयितान्विताः ।। १३६ ।। काचित्स्ववदनं दृष्ट्वा चषकप्रतिबिंबितम् । ईर्ष्ययेंदीवरेणेशं प्राप्ता मदमताडयत् ।। १३७ ।। मदिरायां परिन्यस्तं नारीभिर्मुखसौरभम् । लोचनेषु निजो रागस्तासां मदिरया कृतः ॥ १३८ ॥ तदेव वस्तु संसर्गाद्धते परमचारुताम् । तथाहि दयितापीतं शेषं स्वाद्वभवन्मधु ॥ १३९ ॥ मदिरापतितां कांचिदात्मीयां लोचनद्युतिम् । गृहन्तीन्दीवरप्रीत्या कांतेन हसिता चिरम् १४० अप्रौढापि सती काचिच्छनकैः पायिता सुराम् । जगाम प्रौढतां बाला मन्मथोचितवस्तुनि १४१ लज्जासखीमपाकृत्य तासामत्यन्तमीप्सितम् । कृतं कादंबरीसख्या प्रियेषु क्रीडितं परम् ॥ १४२ ॥ घूर्णमानेक्षणं भूयः कलं स्खलितजल्पितम् । चेष्टितं विकटं स्त्रीणां पुंसां जातं मनोहरम् ॥ १४३ ॥ दंपती मधु वांछतौ पीतशेषं परस्परम् । चक्रतुः प्रसृतोल्लापौ चषकस्य गतागतम् ॥ १४४ ॥ चषकेऽपि गतप्रीतिः कांतामालिंग्य सुंदरः । गंडूषमदिरां कश्चित्पपौ मुकुलितेक्षणः ॥ १४५ ॥ आसीद्विकल्पानां किंचित्स्फुरणसेविनाम् । मधुक्षालितरागाणामधराणां परा छुतिः ॥ १४६ ॥ दंताधरक्षणच्छाया संसर्गिचषके मधु । शुक्लारुणसितां भोजयुक्तं सर इवाभवत् ।। १४७ ॥ I Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy