SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । त्रिसप्ततितमं पर्व । 1 रथनपुरधामेश यर्थेद्रो निन्द्रतां मया । नीतस्तथेममीक्षस्व त्वमनारायणं कृतम् ॥ १२२ ॥ इत्यूर्जितमुदाहृत्य प्रतिशत्रुः प्रतापवान् । स्वप्रभापटलच्छन्नशरीरः परमेश्वरः ॥ १२३ ॥ क्रीडागृहमुपाविक्षन्मंदोदर्या समन्वितः । श्रियेव सहितः शक्रो यथा कालाश्रितक्रियः ||१२४|| सायाह्नसमये तावत्संध्यानिर्गतमंडलः । सविता संहरत्यंशन्कषायानिव संयतः ।। १२५ ।। संध्याबलिविदष्टौष्टपुरुसंरंभलोहितः । निर्भर्त्सयन्निव दिनं गतः कापि दिवाकरः ।। १२६ ॥ बद्धपद्मांजलिपुटा नलिन्योऽस्तं गतं रविम् । विरुतैश्चक्रवाकानां दीनमाकारयन्निव ।। १२७ ।। अनुमार्गेण च प्राप्ता ग्रहनक्षत्रवाहिनी । विक्षेपेणेव सरितुं मृगांकेन विसर्जिता ॥ १२८ ॥ प्रदोषेत संवृत्ते दीपिका रत्नदीपिता । प्रभाभिर्नगरी लंका रेजे मेरो शिखा यथा ।। ११९ ।। प्रियं प्रणयिनी काचिदालिंग्याचे सत्रेपथुः । अप्येकां शर्वरीमेतां मानयामि त्वया सह ॥ १३० ॥ उद्वमद्यूथिकामोदमधुमत्ता विघूर्णिता । पर्यस्ता काचिदीशांके पुष्पवृष्टिः सुकोमला || १३१ ॥ अनतुल्यक्रमा काचित्पीवरोरुपयोधरा । वपुष्मती वपुष्मंतं दयिता दयितं ययौ ॥ १३२ ॥ जग्राह भूषणं काचित्स्वभावेनैव सुंदरी । कुर्वन्ती हेमरत्नानां चारुभावा कृतार्थताम् ॥ १३३ ॥ सुविद्याधरयुग्मानि प्रचिक्रीडुर्यथेप्सितम् । भवने भवने भांति सद्दशं भोगभूमिषु ॥ १३४ ॥ Jain Education International ५० For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy