________________
पद्मपुराणम्।
त्रिसप्ततितम पर्य। अहो त्वं पंडितमन्या याद्वहायोन्नति निजाम् । परपक्षप्रशंसायां प्रवृत्ता दीनचेष्टिता ॥ ९६ ॥ त्वं वीरजननी भूत्वा ममाग्रमहिषी सती । या वक्षि क्लीवमेवं तत्कातरास्ति न ते परा ॥९७।। एवमुक्ता जगी देवी शृणु यद्गदितं बुधैः । हलिनां चक्रिणां जन्म तथा च प्रतिचक्रिणाम् ॥९८॥ विनयोऽथ त्रिपृष्टश्च द्विपृष्टोऽचल एव च । स्वयंभूरिति च ख्यातस्तथा च पुरुषोत्तमः ॥ ९९ ॥ नरसिंह प्रतीतिश्च पुंडरीकश्च विश्रुतः । दत्तश्चेति जगद्धीरा हरयोऽस्मिन् युगे स्मृताः॥१०॥ समये तु महावी? पद्मनारायणौ स्मृतौ । यौ तौ ध्रुवमिमौ जातौ दशानन समागतौ ॥१०१॥ प्रत्यनीका ययुग्रीवतारकाद्या यथागताः । नाशमेभ्यस्तथा नूनं त्वमस्माद्गंतुमिच्छसि ॥ १०२ ॥ तावदाशंक्यते नाथ वक्तुं तत्वं हिते रतम् । यावत्प्रज्ञापनीयस्य निश्चयांतो न दृश्यते ॥ १०३ ।। तत्कार्य बुद्धियुक्तेन परत्रेह च यत्सुखम् । ननु दुःखांकुरोत्पत्तिकारणं कुत्सनास्पदम् ॥ १०४ ॥ विषयः सुचिरं भुक्तैर्यः पुमाँस्तृप्तिमागतः । त्रैलोक्येऽपि वदैकं तं पापमोहित रावण ॥ १०५ ॥ भुक्त्वापि सकलं भोग मुनित्वं चेन सेवसे । गृहिधर्मरते भूत्वा कुरु दुःखविनाशनम् ॥ १०६ ॥ अणुव्रतासिदीप्तांगो नियमच्छत्रशोभितः । सम्यदर्शनसन्नाहः शीलकेतनलक्षितः ॥ १०७॥ भावनाचन्दनाद्रोङ्गः सुप्रबोधशरासनः । वशेंद्रियबलोपेतः शुभध्यानप्रतापवान् । १०८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org