________________
पद्मपुराणम् ।
त्रिसप्ततितम पर्व। किं मयोपचिंतं पश्य परमाकीर्तिगामिना । आत्मा लघूकृतो मूढः परस्त्रीसक्तचेतसा ॥ ८३ ॥ विषयाऽऽमिषशक्तात्मन् पापभाजनचंचला । धिगस्तु हृदयत्वं ते हृदयक्षुद्रचेष्टिता ॥ ८४ ॥ विलक्ष इव चोत्सर्पिमुखेन्दुस्मितचन्द्रिकः । बुद्धाक्षिकुमुदः कांतामेवमूचे दशाननः ।। ८५ ॥ देवि वैक्रियरूपेण विनैव प्रकृतिस्थिता । अत्यंतदयिता त्वं मे किमन्यस्त्रीभिरुत्तमे ॥ ८६ ॥ लब्धप्रसादया देव्या ततो मुदितचित्तया । भाषितं देव किं भानोदीपोद्योताय युज्यते ॥ ८७॥ दशानन सुहृन्मध्ये यन्मयोक्तमिदं हितम् । अन्यानपि बुधान्पृच्छ वेनि नेत्यबला सती ॥८८॥ जानन्नपि नयं सर्व प्रमादं दैवयोगतः । जंतुना हितकामेन बोधनीयो न किं प्रभुः ॥ ८९ ॥ आसीद्विष्णुरसौ साधुर्विक्रियाविस्मृतात्मकः । सिद्धांतगीतिकाभिः किं न प्रबोधमुपाहतः ॥१०॥ अयं पुमानियं स्त्रीति विकल्पोऽयममेधसाम् । सर्वतो वचनं साधु समीहंते सुमेधसः ॥९१ ॥ स्वल्पोऽपि यदि कश्चित्ते प्रसादो मयि विद्यते । ततो वदामि ते मुंच परस्त्रीरतमार्गणम् ॥ ९२ ॥ गृहीत्वा जानकी कृत्वा त्वामेव च समाश्रयम् । प्रत्यापयामि गत्त्वाऽहं रामं भवदनुज्ञया ॥९३॥ उपगृह्य सुतौ तेऽहं शत्रुजिन्मेघवाहनौ । भ्रातरं चोपनेष्यामि किं भूरिजनहिंसया ॥ ९४ ॥ एवमुक्तो भृशं क्रुद्धो रक्षसामधिपोऽवदत् । गच्छ गच्छ द्रुतं यत्र न पश्यामि मुखं तव ॥९५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org