________________
पद्मपुराणम् ।
विसप्ततितम पर्व। इत्युक्तेाभवं क्रोधं वहती विपुलेक्षणा । कर्णोत्पलेन सौभाग्यमतिरेनमताडयत् ॥ ७० ॥ पुनरीष्यां नियम्यांतर्जगाद वद सुंदर । किं माहात्म्यं त्वया तस्या दृष्टं तां यदीच्छसि ॥७॥ न सा गुणवती ज्ञाता ललामा न च रूपतः । कलासु च न निष्णाता न च चित्तानुवर्तिनी ७२ ईदृश्याऽपि तया साकं कांत का ते रतौ मतिः । आत्मनो लाघवं शुद्धं भवत्त्वं नानुबुद्धयसे ७३ न कश्चित्स्वयमात्मानं शंसन्नामोति गौरवम् । गुणा हि गुणतां यांति गुण्यमानाः पराननैः ७४ तदहं नो वदाम्येवं किं नु वेत्सि त्वमेव हि । वराक्या सीतया किंवा न श्रीरपि समेति मे ७५ विजहीहि विभोऽत्यंतं सीतासंगेप्सितात्मकम् । माऽनुषंगानले तीव्र प्राप्तो निःपरिहारके ॥ ७६ ।। मदवज्ञाकरो वांछन् भूमिगोचरिणीमिमाम् । शिशुवैडूर्यमुत्सृज्य काचमिच्छसि मंदकः ॥ ७७॥ न दिव्यं रूपमतस्या जायते मनसि स्थितम् । इमां ग्रामेयकाकारां नाथ कामयसे कथम्।।७८॥ यथा समीहिता कल्पकल्पनाऽतिविचक्षणा । भवामि कीदृशी ब्रूहि जाये त्वचित्तहारिणी ॥७९॥ पद्मालया रतिः सद्यः श्रीर्भवामि किमीश्वर । शकलोचनविश्रान्तभूमिः किं वा शची प्रभो ८० . मकरध्वजचित्तस्य बंधनी रतिरेव वा । साक्षाद्भवामि कि देव भवदिच्छानुवर्तिनी ॥ ८१॥ ततः किंचिदधोवक्त्रो रावणोझैक्षिवीक्षणः । सबीडः स्वैरमूचेऽहं परस्त्रीहस्त्वयोदितः ॥ ८२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org