SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । त्रिसप्ततितम पूर्व। पराजित्यापि संघातं नाथ संबंधिनां तव । कोऽर्थः संपद्यते तस्मात्त्यज सीतामयं ग्रहम् ॥ ५७॥ अन्यदास्तां व्रत तावत्परस्त्रीमुक्तिमात्रतः । पुमान् जन्मद्वये शंसां सुशीलः प्रतिपद्यते ॥ ५८ ॥ कज्जलोपमकारीषु परनारीषु लोलुपः । मेरुगौरवयुक्तोऽपि तृणलाघवमेति ना ॥ ५९॥ देवैरनुगृहीतोपि चक्रवर्तिसुतोऽपि वा । परस्त्रीसंगपंकेन दिग्धो कीर्ति व्रजेत्पराम् ॥ ६ ॥ योऽन्यप्रमदया साकं कुरुते मूढको रतिम् । आशीर्विष जग्याऽसौ रमते पापमानसः॥६१ ॥ निर्मलं कुलमत्यंत मा यशो मलिनं कुरु । आत्मानं च करोषि स्वं तस्माद्वजय दुर्मतिम् ॥६२ ॥ धवांतराबलेच्छातः प्राप्ताः नाशं महाबलाः । सुमुखाशनिघोषाधास्ते च किं न गताः श्रुतिम् ॥ सितचंदनदिग्धांगो नवजीमृतसन्निभः । मंदोदरीमथावोचद्रावणः कमलेक्षणः॥६४॥ अयि कांते किमर्थ त्वमेवं कातरतां गता । भीरुत्वाद्भीरुभावासि नाम हीदं महार्थकम् ॥६५॥ सूर्यकोतिरहं नासौ नचाप्यशनिघोषकः । न चेतरो नरः कश्चिकिमर्थमिति भाषसे ॥ ६६ ॥ मृत्युदावानलः सोऽहं शत्रुपादपसंहतेः । समर्पयामि नो सीतां मा भैषीमंदमानसे ॥ ६७ ॥ अनया कथया किं ते रक्षायां त्वं नियोजिता । शक्तोऽपि रक्षितुं नाथ मह्यर्पय तां द्रुतम् ॥६८॥ ऊचे मंदोदरी सार्द्ध तया रतिसुखं भवान् । वांछत्यपेय मे तामित्येवं च वदतेवपः ॥ ६९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy