________________
४२
पद्मपुराणम् ।
त्रिसप्ततितमं पर्व |
पृष्ठतः क्षुतमग्रे च छिन्नो मार्गो महाहिना । हाही धिङ्मां क यासीति वचांसि तमिवावदत् १८ वातूलप्रेरितं छत्रं भग्नं वैडूर्यदण्डकम् । निपपातोत्तरीयं च बलिभुग्दक्षिणोऽरटत् ।। १९ ।। अन्येऽपि शकुनाः क्रूरास्तं युद्धाय न्यवर्त्तयन् । वचसा कर्मणा ते हि न कायेनानुमोदकाः ॥२०॥ नानाशकुनविज्ञानप्रवीण धिषणा ततः । दृष्ट्वा पापान्महोत्पातानत्यंताकुलमानसाः ॥ २१ ॥ मंदोदरी समाहूय शुकादीन् सारमंत्रिणः । जगाद नोच्यते कस्माद्भवद्भिः स्वहितं नृपः ॥ २२ ॥ किमेतच्चेष्टतेऽद्यापि विज्ञातस्वपरक्रियैः । अशक्ताः कुंभकर्णाद्याः कियद्वंधन मागताः ।। २३ ।। लोकपालौजसो वीराः कृतानेकमहाद्भुताः । शत्रुरोधमिमे प्राप्ताः किं नु कुर्वन्ति वः शमम् ॥ २४॥ प्रणिपत्य ततो देवीमित्याद्दुर्मुख्यमंत्रिणः । कृतांतशासनो मानी स्वप्रधानो दशाननः ॥ २५ ॥ वचनं कुरुते यस्य नरस्य परमं हितम् । न स स्वामिनि ! लोकेऽस्मिन् समस्तेऽप्युपलभ्यते २६ . या काचिद्भविता बुद्धिर्नृणां कर्मानुवर्त्तिनाम् । अशक्या सान्यथाकर्तुं सेंद्रेः सुरगणैरपि ||२७|| अर्थसाराणि शास्त्राणि नयमौशनसं परम् । जानन्नपि त्रिकूटेन्द्रः पश्य मोहेन बाध्यते ॥ २८ ॥ उक्तः स बहुशोऽस्माभिः प्रकारेण न केन सः । तथापि तस्य नो चित्तमभिप्रेतान्निवर्त्तते ॥ २९ ॥ महापूरकृतोत्पीडः पयोवाहसमागमे । दुष्करो हि नदो धर्तु जीवो वा कर्मचोदितः ॥ ३० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org