________________
पद्मपुराणम् ।
त्रिसप्ततितमं पर्व ।
सदोsवलोकमानोऽगादिति चिंतां महामनाः । मेघवाहनवीरोऽत्र स्वप्रदेशे न दृश्यते ॥ ५ ॥ महेन्द्रविभ्रमो नेतः शक्रजिन्नयनप्रियः । इतो मानुप्रभो भानुकर्णोऽसौ न निरीक्ष्यते ॥ ६ ॥ नेदं सदः सरः शोभां धारयत्यधुना पराम् । निर्महापुरुषांभोजं शेषपुंस्कुमुदांचितम् ॥ ७ ॥ उत्फुल्लपुंडरीकाक्षः स मनोज्ञोऽपि तादृशः । चिंतादुःखविकारेण कृतो दुःसहदर्शनः ॥ ८ ॥ कुटिलभृकुटीबंधघनध्वांतालिकांगणम् । सरोषाशीर्विषच्छायं कृतांतमिव भीषणम् ॥ ९ ॥ गाढदृष्टाधरं स्वांशुचक्रमयं समीक्ष्य तम् । सचिवेशा भृशं भीताः किंकर्त्तव्यत्वगह्वराः ॥ १० ॥ ममायं कुपितोऽमुष्य तस्येत्याकुलमानसाः । स्थिताः प्रांजलयः सर्वे धरणीगतमस्तकाः ॥ ११ ॥ मोग्रशुलोकाक्षसारणाद्याः सलज्जिताः । परस्परं विविक्षतः क्षितिं च विनताननाः ॥ १२ ॥ प्रचलत्कुंडला राजन् ते भटाः पार्श्ववर्तिनः । मुहुर्देव प्रसीदेति त्वरावंतो बभाषिरे ॥ १३ ॥ कैलास कूटकल्पासु रत्नभासुरभित्तिषु । स्थिताः प्रासादमालासु स्रस्तास्तं ददृशुः स्त्रियः ॥१४॥ मणिजालगवाक्षांतन्यस्तसंभ्रांतलोचना । मंदोदरी ददशैनं समालोडितमानसा ।। १५ ।। लोहिताक्षः प्रतापाढ्यः समुत्थाय दशाननः । अमोघरत्नशस्त्राढ्यमायुधालयमुज्ज्वलम् ॥ १६ ॥ वज्रालयमिवेशानः सुराणां गंतुमुद्यतः । विशतश्च समेतस्य दुर्निमित्तानि जज्ञिरे ॥ १७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org