________________
पद्मपुराणम् ।
त्रिसप्ततितमं पर्व ।
उद्वासयामि सर्वस्मिन्नेतस्मिन्वसुधातले । क्षुद्रान् भूगोचरान् श्लाघ्यान स्थापयामि नभश्वरान् ९५
येनान वंशे सुरवत्र्मयानां त्रिलोकनाथाभिनुता जिनेंद्राः ।। ___ चक्रायुधा रामजनार्दनाश्च । जन्म ग्रहीष्यंति तथाऽऽस्मदाद्याः ॥ ९६ ।। निकाचितं कर्म नरेण येन । यत्तस्य भुंक्ते सफलं नियोगात् ॥
कस्यान्यथा शास्त्ररवी सुदीप्ते । तमो भवेन्मानुषकोशिकस्य ।। ९७ ॥ इल्याचे रविषेणाचार्यप्रोक्त पद्मपुराणे युद्धनिश्चयकीर्तनाभिधानं नाम द्वासप्ततितम पर्व ।
अथ त्रिसप्ततितमं पर्व। ततो दशाननोऽन्यत्र दिने परमभासुरः । आस्थानमंडपे तस्थावुदिते दिवसाधिपे ॥१॥ कुवेरवरुणेशानयमसोमसमैनृपः । रराज सेवितस्तत्र त्रिदशानामिवाधिपः ॥२॥ वृतः कुलोद्गतीरैः स्थितः केसरिविष्टरे । स बमार परां कांति निशाकर इव ग्रहैः ॥३॥ अत्यंतसुरभिर्दिव्यवस्त्रस्रगनुलेपनः । हारातिहारिवक्षस्कः सुभगः सौम्यदर्शनः ॥ ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org