________________
पद्मपुराणम् ।
द्वासप्ततितम पर्व । दैवतप्रतिमा जाता लोचनोदकदुर्दिना । निपति ग्रहावृक्षाः विना दृष्टेन हेतुना ॥ ८२ ॥ आदित्याभिमुखीभूताः काकाः खरकरस्वनाः । संघातवर्जिनो जाताः स्रस्तपक्षा महाकुलाः ८३ सरांसि सहसा शोषं प्राप्तानि विपुलान्यपि । निपेतुर्गिरिशंगाणि नभो वर्षति शोणितम् ॥ ८४॥ स्वल्पैरेव दिनैः प्रायः प्रभोराचक्षते मृतिम् । विकाराः खलु भावानां जायंते नान्यथेदृशः॥८५॥ क्षीणेष्वात्मीयपुण्येषु याति शक्रोऽपि विच्युतिम् । जनता कर्मतंत्रेयं गुणभूतं हि पौरुषम् ॥८६॥ लभ्यते खलु लब्धव्यं नातः शक्यं पलायितुम् । न काचिच्छूरता देवे प्राणिनां स्वकृताशिनाम्॥ सर्वेषु नयशास्त्रेषु कुशलो लोकतंत्रवित् । जैनव्याकरणाभिज्ञो महागुणविभूषितः ॥ ८८ ॥ एवंविधो भवन् सोऽयं दशवक्रः स्वकर्मभिः । वाहितः प्रस्थितः कष्टमुन्मार्गेण विमूढधीः ॥८९॥ मरणात्परमं दुःखं न लोके विद्यते परम् । न चिंतयत्ययं पश्य तदप्यत्यंतगर्वितः ॥९०॥ नक्षत्रबलनिर्मुक्तो ग्रहैः सुकुटिलैः स्थितैः। पीड्यमानो रणक्षोणीमाकांक्षत्येष दुर्मनाः॥९१॥ प्रतापभंगभीतोऽयं वीरैकरसभावितः । कृतखेदोऽपि शास्त्रेषु युक्तायुक्तं न वीक्षते ॥९२॥ अतः परं महाराजन् दशग्रीवस्य मानिनः । मनसि स्थितमर्थ ते वदामि शृणु तत्वतः ॥ ९३ ॥ जित्वा सर्वजनं सर्वान् मुक्त्वा पुत्रसहोदरान् । प्रविशामि पुनलंकामिदं पश्चात्करोमि च ॥१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org