SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । द्वासप्ततितम पर्व। महान् लोकापवादश्च भयान्यायसमुद्भवः । न जायते करोम्येवं ततो निश्चितमानसः ॥ ६९ ॥ मनसा संप्रधावं महाविभवसंगतः। ययावतःपुरांभोजखंडं रावणवारणः ॥ ७० ॥ ततः परिभवं स्मृत्वा महांतं शत्रुसंभवम् । क्रोधारुणेक्षणो भीमः संवृत्तोंऽतकसंनिभः ॥ ७१ ॥ बमाण दशवक्त्रस्तद्वचनं स्फुरिताधरः । स्त्रीणां मध्ये ज्वरो येन समुद्दीप्तः सुदुःसहः ।। ७२ ॥ गृहीत्वा समरे पापं तं दुर्णीवं सहांगदम् । भागद्वयं करोम्येष खड्गेन द्युतिहासिना ।। ७३ ॥ तमोमंडलकं तं च गृहीत्वा दृढसंयतम् । लोहमुद्गरनिर्घातैस्त्याजयिष्यामि जीवितम् ॥ ७४ ॥ करालतीक्ष्णधारेण क्रकचेन मरुत्सुतम् । यंत्रितं काष्ठयुग्मेन पाटयिष्यामि दुणेयम् ॥ ७५ ॥ मुक्त्वा राघवमुवृत्तानखिलानाहवे परान् । अस्त्रौषैश्चूयिष्यामि दुराचारान् हतात्मनः ॥७६॥ इति निश्चयमापने वर्तमाने दशानने । वाचो नैमित्तवक्त्रेषु चरंति मगधेश्वर ॥ ७७ ।। उत्पाताः शतशो भीमाः संप्रत्येते समुद्गताः । आयुधप्रतिमो रूक्षः परिवेषः खरत्विषः ॥ ७८ ॥ समस्तां रजनी चंद्रो नष्टः कापि भयादिव । निपेतु?रनिर्घाता भूकंपः सुमहानभूत् ॥ ७९ ॥ वेपमाना दिशि प्राच्यां मुक्ताशोणितसन्निमा । पपात विरसं रेदुरुत्तरेण तथा शिवाः ॥ ८॥ हेषंति कंपितग्रीवास्तुरंगाः प्रखरस्वनाः । हस्तिनो रूक्षनिःस्वाना नंति हस्तेन मेदिनीम् ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy