________________
पद्मपुराणम् ।
३७
द्वसप्ततितमं पर्व ।
1
नदी कुटिला मीमा धर्मार्थपरिनाशिनी । वर्जनीया सतां यत्नात्सर्वाशुभमहाखनिः ॥ ५६ ॥ अमृतेनेव या दृष्टा मामसिंचन्मनोहराः । अमरीभ्योऽपि दयिता सर्वाभ्यः पूर्वमुत्तमा ॥ ५७ ॥ अद्यैव सा परासक्तहृदया जनकात्मजा । विषकुंभीसमात्यंतं संजातोद्वेजनी मम ॥ ५८ ॥ अनिच्छंत्यपि मेः पूर्वमशून्यं याकरोन्मनः । सैवेयमधुना जीर्णतृणानादरमागता ।। ५९ ।। अधुनाऽन्याहितस्वांता यद्यपीच्छेदियं तु माम् । तथापि कानया प्रीतिः सद्भावपरिमुक्तया ६० आसीद्यदानुकूलो मे विद्वान् भ्राता विभीषणः । उपदेष्टा तदा नैवं शमं दग्धं मनोगतम् ॥ ६१ ॥ प्रमादाद्विकृति प्राप्तं मनः समुपदेशतः । प्रायः पुण्यवतां पुंसां वशीभावेऽवतिष्ठते ॥ ६२ ॥ स्वसंग्रामवृत्तौ सार्द्धं सचिवैमंत्रणं कृतम् । अधुना कीदृशी मैत्री वीरलोकविगर्हिता ॥ ६३ ॥ योद्धव्यं करुणा चेति द्वयमेतद्विरुध्यते । अहो संकटमापन्नः प्राकृतोऽहमिदं महत् ॥ ६४ ॥ यद्यर्पयामि पद्माय जानकीं कृपयाऽधुना । लोको दुर्ग्रहचित्तोऽयं ततो मां वेत्यशक्तकम् || ६५ ॥ यत्किचित्करणोन्मुक्तः सुखं जीवति निर्घृणः । जीवत्यस्मद्विधो दुःखं करुणामृदुमानसः ॥ ६६ ॥ हरितार्क्ष्यसमुन्नद्धौ तौ कृत्वाऽऽजौ निरस्त्रकौ । जीवग्राहं गृहीतौ च पद्मलक्षणसंज्ञकौ ॥ ६७ ॥ पश्वाद्विभवसंयुक्तो पद्मनाभाय मैथिलीम् । न जायते करोम्येवं ततो निश्चितमानसः ॥ ६८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org