SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । हासप्ततितम पर्व । दशानन ! यदि प्रीतिर्विद्यते तव मां प्रति । प्रसादो वा ततः कर्तुं ममेदं वाक्यमर्हसि ॥ ४३ ॥ क्रुद्धेनापि त्वया संख्ये प्राप्तोऽभिमुखतामसौ । अनिवेदितसंदेशो न हंतव्यः पियो मम ॥४४॥ पद्म भामंडलस्वस्रा तव संदिष्टमीदृशम् । यथा श्रुत्वाऽन्यथा त्वाहं विधियोगेन संयुगे ॥ ४५ ॥ महता शोकभारेण समाक्रांता सती प्रभो । वात्याहतप्रदीपस्य शिखेव क्षणमात्रतः ॥ ४६ ॥ राजर्षेस्तनया शोच्या जनकस्य महात्मनः । प्राणानेषा न मुंचामि त्वत्समागमनोत्सुका ॥४७॥ इत्युक्ता भूञ्छिता भूमी पपात मुकुलक्षणा । हेमकल्पलता यद्वद्भग्ना मत्तेन दंतिना ॥४८॥ तदवस्थामिमां दृष्टा रावणो मृदुमानसः । बभूव परमं दुःखी चिंता चैतामुपागतः ॥ ४९ ॥ अहो निकांचितस्नेहः कर्मबंधोदयादहम् । अवसानविनिर्मुक्तः कोऽपि संसारगहरे ॥ ५० ॥ धिक् धिक् किमिदमश्लाघ्यं कृतं सुविकृतं मया । यदन्योन्यरतं भीरुमिथुनं सद्वियोजितम्।।५१॥ पापातुरो विना कार्य पृथग्जनसमो महत् । अयशोमलमाप्तोऽस्मि सद्भिरत्यंतर्निदितम् ॥ ५२ ॥ शुद्धांभोजसमं गोत्रं विपुलं मलिनीकृतम् । दुरात्मना मया कष्टं कथमेतदनुष्टितम् ॥ ५३॥ धिनारी पुरुषेन्द्राणां सहसा मारणत्मिकाम् । किंपाकफलदेशीयां क्लेशोत्पत्तिवसुंधराम् ॥५४॥ भोगिमूर्द्धमणिच्छायासदृशी मोहकारिणी । सामान्येनांगना तावत्परस्त्री तु विशेषतः ॥ ५५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy