________________
पद्मपुराणम् ।
द्वासप्ततितम पर्व । त्रिकूटाधिपतावस्मिन् रूपं निरुपमं श्रिते । सफला जायतां ते दृक् रूपं चास्येदमुत्तमम् ॥३०॥ ततो विमलया दृष्टया तया बाह्यांतरात्मनः । चापांधकारितं वीक्ष्य बलमेवमचिंत्यत ॥ ३१ ॥ अदृष्टपारमुवृत्तं बलमीदृक् महाप्रभम् । रामो लक्ष्मीधरो वाऽपि दुःखं जयति संयुगे ॥ ३२ ॥ अधन्या किं नु पद्माभं किं वा लक्ष्मणसुन्दरम् । हतं श्रोष्यामि संग्रामे किंवा पापा सहोदरम् ३३ एवं चिंतामुपायातां परमाकुलितात्मिकाम् । कंपमानां परित्रस्तां सीतामागत्य रावणः ॥ ३४ ॥ जगाद देवि ! पापेन त्वं मया छमना हृता । क्षात्रगोत्रप्रसूतानां किमिदं साप्रतं सताम् ॥३५॥ अवश्यंभाविनो नूनं कर्मणो गतिरीदृशी । स्नेहस्य परमस्येयं मोहस्य बलिनोऽथ वा ॥३६॥ साधनां सन्निधौ पूर्व व्रतं भगवतो मया । वंद्यस्यानंतवीर्यस्य पादमूले समार्जितम् ॥ ३७॥ या वृणोति न मां नारी रमयामि न तामहम् । यदुवंशी स्वयं रंभा यदि वाऽन्या मनोरमा ३८ इति पालयता सत्यं प्रसादापेक्षिणा मया । प्रसभं रमिता नासि जगदुत्तमसुंदरि ॥३९॥ अधुनाऽऽलंबने छिन्ने मद्भुजप्रेरितैः शरैः । वैदेहि ! पुष्पकारूढा विहर स्वेच्छया जगत् ॥४०॥ शिखराण्यगराजस्थ चैत्यकूटानि सागरम् । महानदीश्च पश्यंती जनयात्मसुखासिकाम् ॥४१॥ कृत्वा करपुटं सीता ततः करुणमभ्यधात् । वास्पसंभारसंरुद्धकंठा कृच्छ्रेण सादरम् ॥ ४२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org